SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १९१ नवमः सर्गः। अन्यदा विहरन् प्राप्तः पूर्वतालपुरं पुरं । राजा वृषभसेनाख्यो यत्रास्ते भरतानुजः ।।२०५।। तत्रोद्यानं महोद्योगः शकटास्याभिधानकं । ध्यानयोगमथासाद्य स न्यग्रोधतरोरधः ॥२०६॥ उपविष्टः शिलापट्टे पर्यकासनबंधनः । वशस्थकरणग्रामः शुक्लध्यानासिधारया ॥ २०७ ॥ आरूढः क्षपकश्रेणि रणक्षोणी क्षणेन सः। महोत्साहगजारूढो मोहराजमपातयत् ॥२०८॥ ज्ञानावरणश च दर्शनावरणद्विषं । अंतरायरिपुं चैव जघान युगपत् प्रभुः ॥२०९॥ चतुपातिक्षयाच्चास्य केवलज्ञानमुद्गतं । समस्तद्रव्यपर्यायलोकालोकावलोकनं ॥२१०॥ चतुर्देवनिकायाश्च पूर्ववत् समुपागताः । सेंद्राः नेमुर्जिनेंद्रं तं गायतः कर्मणां जयं ॥२११॥ प्रातिहार्यैस्ततोऽष्टाभिर्जिनेंद्रस्तत्क्षणोद्भवैः । स चतुस्त्रिंशद्विशेषैरशेषैः सहितो बभौ ॥२१२॥ पुत्रचक्रसमुत्पत्या जिनकेवलजन्मना । दिष्टचाभिवर्धितो यातो भरतो वंदितुं विभुं ॥२१३।। संप्राप्तकुरुभोजाद्यैश्चतुरंगबलावृतः । आर्हत्यविभवोपेतमभ्यर्च्य प्रणनाम तं ॥ २१४ ॥ नृपवृषभसेनस्तं बहुभिवृषभं श्रितः । संयमं प्रतिपद्याभूत् गणभृत् प्रथमः प्रभोः ॥२१५॥ लक्ष्मीमत्यात्मजं राज्ये जयमायोज्य सानुजं । प्रव्रज्यां प्रतिपन्नौ तौ श्रेयःसोमप्रभौ नृपौ।।२१६॥ ब्राह्मी च सुंदरी चोभे कुमायौं धैर्यसंगते । प्रव्रज्य बहुनारीभिरार्याणां प्रभुतां गते ॥२१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy