________________
१९०
हरिवंशपुराणं।
नवमः सर्गः । नेदुरंबुदनिर्घोषाः सुरदुंदुभयोऽबरे । दानतीर्थकरोत्पत्ति घोषयंतो जगत्त्रये ।। १९२ ॥ श्रेयोदानयशोराशिपूर्णदिग्वनिताननैः । प्रोवीर्ण इव निःश्वाससुरभिः पवनो ववौ ॥ १९३॥ पपात सुमनोवृष्टिरमांतीवांगनिर्गता । श्रेयसः सुमनोवृत्तिरमांतीव दिवःपुनः ॥ १९४ ॥ श्रेयसा पात्रनिक्षिप्तपुद्रे रसधारया । स्पर्धेयेव सुरैः स्पृष्टा वसुधाराऽपतदिवः ॥१९५॥ अभ्यर्चिते तपोवृद्ध्यै धर्मतीर्थकरे गते । दानतीर्थकर देवाः साभिषेकमपूजयन् ॥१९६॥ श्रुत्वा देवनिकायेभ्यः सद्दानफलघोषणं । समेत्य पूजयंति स्म श्रेयांसं भरतादयः ॥१९७।। इतिहासमनुस्मृत्य दानधर्मविधिं ततः । शुश्रुवुः श्रद्धया युक्ताः प्रत्यक्षफलदर्शिनः ॥१९८॥ प्रतिग्रहोतिथेरुच्चैः स्थानस्थापनमन्यतः । पादप्रक्षालनं दात्रा पूजनं प्रणतिस्ततः ॥१९९।। मनोवचनकायानामेषणायाश्च शुद्धयः । प्रकारा नव विज्ञेया दानपुण्यस्य संग्रहे ॥२००॥ पुण्यमित्थमुपात्तं यत् तदभ्युदयलक्षणं । दत्वा तु यत्फलं भुक्तं प्राग् निश्रेयसलक्षणं ॥२०१॥ इतिश्रुतयथातत्वा श्रेयांसमभिनंद्य ते । दानधर्मोद्यतस्वांता नपा यांता यथाक्रमं ॥२०२॥ सहस्रवर्ष वृषभो चतुर्ज्ञानचतुर्मुखः । चक्रे मोक्षार्थबोधार्थ तपो नानाविधं स्वयं ॥२०३।। सप्रलंबजटाभारभ्राजिष्णुर्जिष्णुराबभौ । रूढप्रारोहशाखायो यथा न्यग्रोधपादपः ॥२०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org