________________
हरिवंशपुराण ।
१८९
नवमः सर्गः। सोमप्रभस्य देवीमिर्लक्ष्मीमत्यकरोत् प्रिया । शशिरेखेव ताराभिगिरीशं तं प्रदक्षिणं ॥ १७९ ॥ स श्रेयानीक्षमाणस्तं निमेषरहितेक्षणः । रूपमीदृक्षमद्राक्षं कचित् प्रागित्यधान्मनः ॥ १८० ॥ दीप्रेणाप्युपशांतेन स तद्रूपेण बोधितः । दशात्मेशभवान् बुद्धा पादावाश्रित्य मूञ्छितः ॥१८१॥ मृञ्छितेनापि तत्पादौ प्रमृज्य मृदुमूर्धजैः । अध्वभ्रमच्छिदा धौतौ सोष्णानंदाश्रुधारया ॥१८२॥ श्रीमतीवज्रजंघाभ्यां दत्तं दानं पुरा यथा । चारणाभ्यां स्वपुत्राभ्यां संस्मृत्य जिनदर्शनात्॥१८३।। भगवन् ! तिष्ठ तिष्ठेति चोक्तानीतो गृहांतरे । उच्चैः सदासने स्थाप्य धौततत्पादपंकजः ॥ १८४ ॥ तच्चरणपूजनं कृत्वा प्रणतिं च त्रिधा तथा । दानधर्मविधेर्बोद्धा विधाता स्वयमेव सः ॥१८५॥ श्रद्धादिगुणसंपूर्णपात्रे संपूर्णलक्षणे । दित्सुरिक्षुरसापूर्ण कुंभमुद्भत्य सोऽब्रवीत् ॥ १८६ ॥ षोडशोद्गमदोषैश्च षोडशोत्पादनिश्चितैः । दशभिश्चैषणादोपैर्विशुद्धमपरैस्तथा ॥ १८७ ॥ धूमांगारप्रमाणाख्यैः संयोजनयुतैः प्रभो । मुक्तं दायकदोषैश्च गृहाण प्रासुकं रसं ॥ १८८ ॥ वृत्तवृद्धथै विशुद्धात्मा पाणिपात्रेण पारणं । समपादस्थितश्चक्रे दशयन् क्रियया विधिं ॥१८९॥ श्रेयसि श्रेयसा पात्रे प्रतिलब्धे जिनेश्वरे । पंचाश्चर्यविशुद्धिभ्यः पंचाश्चर्याणि जज्ञिरे ॥ १९० ।। अहो दानमहो दानमहो पात्रमहो क्रमः । साधु साध्विति खे नादःप्रादुरासीदिवौकसां ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org