________________
हरिवंशपुराणं ।
१८८
नवमः सर्गः ।
तावदाध्मातमाध्याह्नशंखनादः समुच्छ्रितः । वर्धयन्निव दिष्ट्या तौ जिनागमनिवेदनात् || १६६ || रचितः परिवर्गेण स्नातयोश्च तयोस्ततः । सुभोजनविधिस्तत्र दिव्याहारमनोहरः ॥ १६७॥ मणिकुट्टिमभूमौ तावुपविष्टभुजं प्रति । सिद्धार्थस्तूर्णमागत्य दिष्ट्या वर्धयतीत्यसौ ।। १६८ ।। तितिक्षोः पृथिवीं यस्य मकरालय मेखला । शिविकोद्वाहनोभूवन् देवा वज्रधरादयः ॥ १६९॥ भग्ने कच्छमहाकच्छ पूर्व पुंगवमंडले । बिभर्ति दुर्वहामेको वृषभो यस्तपोधुरां ॥ १७० ॥ यत्कथामृततृप्तानां गोष्ठीषु विदुषां सदा । वर्तते युष्मदादीनां नाहारग्रहणे मतिः ॥ १७१ ॥ प्राघूर्णिकोऽद्य सोऽस्माकमकस्माज्जगतांपतिः । क्षांतिमैत्रीत पोलक्ष्मीसहायः समुपागतः ॥ १७२ ॥ दिशा वैश्रवणस्येव प्रविश्य नगरीं विभुः । युगांतदृष्टिरास्थाय चांद्रीचर्यां यथोचितां ॥ १७३ ॥ संभ्रात्यान्विति लोकस्य पदयोरर्घ्यदायिनः । स्तुतिभिर्वदनाभिश्च समंतादुपसेवितः ॥ १७४ ॥ धाम धाम निजं धाम प्रकिरन्निव शीतगुः । अस्मदीयतया नाथो निशांता जिरमाप्तवान् ॥ १७५ ॥ इति सिद्धार्थ वागर्थ ज्ञात्वाच्छ्राय ससंभ्रमौ । अभिजग्मतुरीशस्य ललाटे न्यस्तहस्तकौ ॥ १७६ ॥ आगच्छ भर्तरादेशं प्रयच्छेति कृतध्वनी । चंद्रार्काविव शैलेशमध्वनीमं परीयतुः ॥ १७७ ॥ पतित्वा पादयोस्तस्य सुखपृच्छापुरःसरौ । आगतो मौनिनौ हेतुं ध्यायं तावग्रतः स्थितौ ॥ १७८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org