________________
हरिवंशपुराण।
नवमः सर्गः। तुरंगतुंगमातंगरथयानान्यथाऽपरे । सद्यःसज्जानि तस्याने स्थापयंति विमोहिनः ॥ १५३ ॥ अदृष्टश्रुतपूर्व वात् तत्प्रयोग्यमजानता । भिक्षादानविधिस्तस्मै न लोकेन विकल्पिता ॥१५४॥ लोकस्य प्रतिबोधार्थमुदितस्य दिने दिने । जिनाकस्य न खेदाय जगद्धमणमप्यभूत् ॥१५५॥ तथा यथागमं नाथः षण्मासानविषण्णधीः । प्रजाभिःपूज्यमानःसन् विजहार महीं क्रमात् ।।१५६।। संप्राप्तोऽथ सदादानरिभरिभपुरं विभुः । दानप्रवृत्तिरत्रेति सूचयद्भिरिवोचितं ॥ १५७॥ तस्मिन् सोमप्रभः श्रीमानपि भूमौ सहोदरौ । तस्यामेव विभावयाँ स्वप्नानेतानपश्यतां ॥१५८॥ चंद्रमिंद्रध्वज मेरुं सतडित्कल्पपादपं । रत्नद्वीपं विमानं च नाभेयं पुरुषोत्तमं ॥ १५९ ।।। प्रभाते तो कुरुपृष्टावास्थानस्थो च विस्मितो । चक्राते बुधचक्रेण सुस्वप्नफलसका ॥१६०॥ बंधुः कौमुदखंडानामिव कोमुदमावही । अद्यैवेष्यति बंधुनः कोऽपि नूनमनूनभाः ॥ १६१ ॥ उच्चैर्यशोध्वजो लोके सर्वकल्याणपर्वतः । जगत्कल्पद्रुमो विद्युत्क्षणदर्शितविग्रहः ॥ १६२ ।। धर्मरत्नमहाद्वीपो वैमानिकजगच्च्युतः । स्वप्नवर्तिकतु नाभेयः स्वयमेवाद्य दृश्यते ॥१६३।। पुरस्य राजगेहस्य लक्ष्मीरचैव लक्ष्यते । भद्रं निवेदयत्याशु ककुभां च प्रसन्नतां ॥ १६४ ॥ स्वप्नार्थमिति बुद्धा तौ नियुज्यांतर्वहिर्नरान् । कथया जिननाथस्य शक्तौ यावदवस्थितौ ॥१६५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org