________________
हरिवंशपुराणं ।
१८६
नवमः सर्गः ।
अतस्तस्यानवद्यस्य ग्रहणे विधिमार्थिनां । शासनस्थितयेऽन्नस्य दर्शयामीह भारते ।। १४० ।। इति ध्वात्वा स्वयंशक्तः स क्षुधादिविनिग्रहे । परार्थमतिमाधत्त गोचरान्नपरिग्रहे ॥ १४१ ॥ षण्मासानशनस्यांते संहृतप्रतिमा स्थितिः । प्रतस्थे पदविन्यासैः क्षितिं पल्लवयन्निव ॥ १४२ ॥ आकेवलादयान्मौनी प्रलंबितभुजः पथि । सावधानां गतिं विभ्रन्नातिद्रुतविलंबितां ॥ १४३ ॥ मध्याह्नेषु पुरग्रामगृहपंक्तिषु दर्शनं । प्रशस्तासु प्रजाभ्योऽदाचांद्रीचर्यां चरन् क्षितौ ॥ १४४ ॥ श्राम्यतं तं तथा नाथं सौम्यविग्रहमुन्मुखाः । पश्यंतो न प्रजास्तृप्ता यथा चंद्रं नवोदितं ॥ १४५ ॥ श्वेतभानुरयं किंतु स्वर्भानुग्रासशंकया । भूमिगोचरमायातस्त्यक्ततारार्कगोचरः ।। १४६ ॥ पूषा किंवा भवेदेष मूभृत्प्रासादभूरुहं । छायातमस्तिरस्कर्तुं द्वितीयक्षितिमागतः ॥ १४७ ॥ अहो कांतेः परं स्थानं अहो दीप्तेः परं पदं । अहो सुशीलशैलोऽयं गुणराशिरहो महान् ॥ १४८ ॥ सौरूप्यस्य परा कोटिः सौलावण्यस्य भूः परा । माधुर्यस्य परावस्था धैर्यस्यायं परा स्थितिः १४९ ।। एतै क्षण साफल्यं एनं पश्यत पश्यत । जना दिग्वासनस्यापि परमां रमणीयतां ।। १५० ।। इत्यन्योन्यकृतालापघनसंघट्टसंघटा । जिनं नराश्व नार्यश्च ददृशुर्विस्मयाकुलाः || १५१ ॥ केचित् वस्त्राणि चित्राणि भूषणान्यपरे परे । दिव्यानि गंधमाल्यानि प्रकुर्वेति पुरः प्रभोः ।। १५२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org