________________
हरिवंशपुराणं ।
१८५
नवमः सर्गः ।
यत्तन्मान कषायी स काषायं वेषमग्रहीत् । एकदंडी शुचिर्मुडी परिव्राड् व्रतपोषणं ॥ १२७ ॥ नमिव विनमिवोभौ भोगयाचनयातुगे । तावुद्विनौ विभोर्लग्नौ पादयोर्दुःस्थितौ स्थितौ ॥ १२८ ॥ धूतासनोऽवधिज्ञानात् तद्भुद्धा धरणः फणी । आजगाम मुनेर्भक्त्या मौनं सर्वार्थसाधनं ॥ १२९॥ विश्वास्य दिव्यरूपोऽसौ भ्रातरौ चातुरौ यथा। महाविद्यां ददौ ताभ्यां विद्यालाभो गुरोर्वशात् १३० योगो विद्याधराधारो विजयार्द्ध इतीरितः । सोऽपि ताभ्यां ततो लब्धः किं न स्याद् गुरुसेवया १३१ स नमिर्दक्षिणश्रेण्यां पंचाशन्नगरेश्वरः । विनमिश्चोत्तरश्रेण्यामभूत् षष्टिपुरेश्वरः ॥ १३२ ॥ अध्यतिष्ठन्नमिः श्रेष्ठं नगरं रथनूपुरं । नमस्तिलकमत्यर्थं विनमिः सह बांधवैः ।। १३३ ।। विद्याधरजनो धीरः प्राप्य तौ परमेश्वरौ । उपरिस्थितमात्मानं भुवनस्याप्यमन्यत ॥ १३४ ॥ अथाऽसौ प्रतिमास्थोऽपि प्रविश्य भगवान् स्थिरः । परीषहाग्निविध्यापी सद्ध्यानजलधौ स्थिरः ३५ मत्वेतरमनुष्याणां भवतां च भविष्यतां । मोक्षाय विजिगीषूणां भुक्त्यभावेऽल्पशक्तिताम् ॥ १३६ ॥ धर्मार्थकाममोक्षेषु धर्मः क्षांत्यादिलक्षणः । पुरुषार्थस्थितो मोक्षो मुख्य कामार्थसाधनः॥१३७॥ प्राणाधिष्ठाननिष्ठं शरीरं धर्मसाधनं । प्राणैरधिष्ठितः प्राणी प्राणस्त्वन्नैरधिष्ठिताः ।। १३८ ॥ पारंपर्येण धर्मस्य ततोऽन्नमपि साधनं । प्राणिनामल्पवीर्याणां प्रधानस्थितिकारणं ।। १३९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org