________________
हरिवंशपुराणं।
१८४
नवमः सर्गः। भो भो माऽनेन रूपेण स्वयंग्राहविरोधिना । प्रवर्त्तध्वमिति व्यक्ताः खऽभवन्महतां गिरः॥११४॥ ततस्ते त्रपितास्त्रस्ता दिशो वीक्ष्य महीक्षितः। चक्रुर्वेषपरावर्त कुशचीवरवल्कलैः ॥ ११५ ॥ पुनः कृत्वा सुविश्रब्धास्ते दग्धोदरपूरणं । स्वस्थाः कार्य विचार्योचुः स्वस्थे चित्ते हि बुद्धयः॥११६॥ कोऽभिप्रायः प्रभोरस्य त्यक्तभोगस्य लक्ष्यतां । नवैहिकफलायेदं चेष्टितं सुष्ठदुष्करं ॥१७॥ तथा ह्यनेन भो दृष्टा संपदो विपदो यथा । रत्यरत्योर्विघातेन विषयाश्च विषोपमाः ॥११८ ॥ सालंकारं परित्यक्तं वसनं व्यसनं यथा । मूलोत्खाता स्वहस्तेन मूर्धजा वैरिणो यथा ॥११९॥ शरीरमपि संन्यस्त सन्यस्ताहारवस्तुना । तदस्याभिमतं किंचिदामुत्रिकफलं भवेत् ।। १२० ॥ नैष्ठिकव्रतमास्थाय स्वामिन्येवं व्यवस्थिते । किं नः कर्तव्यमित्येकं न विद्मः सांप्रतं वयं ॥१२१॥ निष्क्रांतानामनेनामा स्वदेशान्प्रतिनिवर्तनं । नैव पुष्णाति नच्छायामपायब हुलं च तत् ॥१२२॥ न शक्ताश्चरितुं चर्चा यदि नाम वयं विभोः । वनवासित्वसाम्येन किं न कुर्मोऽनुवर्ततं ॥१२३।। इति निश्चित्य तेऽन्योन्यं पांडुपत्रफलाशिनः। जटावल्कलिनो जातास्तापसा वनवासिनः ।।१२४।। यो मरीचिकुमारस्नु नप्ता तप्ततनुर्विभोः । दृष्टवान् जलभावेन तृषामरुमरीचिकां ।। १२५ ॥ जलावगाहनान्यस्य गजस्येव विदाहिनः । मृदवश्व मृदश्चक्रुः शरीरपरिनिवृति ॥ १२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org