________________
१८३
हरिवंशपुराणं ।
नवमः सर्गः। नपास्तेऽपि तथा तस्थुः कार्योत्सर्गेण निश्चलाः । परमार्थमजानंतः स्वामिच्छंदानुवर्तिनः ॥१०२॥ भृत्यपुत्रकलात्राणि क्षुत्पिपासाकुलात्मनां । अद्य श्वो नोन्नमादाय समेष्यतीत्यमी विदुः ॥१०३॥ ततःकच्छमहाकच्छमरीच्यग्रेसरास्तके । षड्मासाभ्यंतरे भग्नाः क्षुधााग्रपरीपहैः ॥१०४॥ तेषां शुत्क्षामगात्राणां भ्रमती दृष्टिरस्थिरा । भ्रांतदृष्टभविष्यंत्याः पूर्वरंगमिवाकरोत् ॥१०५।। दृष्टं तैमिरिक कैश्चिदंधकारेऽपि तादृशे । स्पर्धयेव द्विचंद्राक्षैः शतचंद्र नभस्तलं ॥ १०६ ॥ श्रुतं शब्दात्मकं विश्वं भावयद्भिरिवापरैः। स्वशब्दलिंगमाकाशमिीत वैशेषिकागमः ॥ १०७ ॥ पतद्भिरपि तत्रान्यन मनागपि चेतिकं । अचित्स्वभावमात्मानमनुकतुमिवोद्यतैः ।। १०८ ॥ चेतयतोऽपि तत्रान्ये स्वैरमासितुमप्यलं । निरीहात्मतया जहुः स्वां सांख्यपुरुषस्थितिं ॥१०९।। केचित् निरन्वयध्वस्तबुद्धयो नैव सस्मरुः । पूर्वापरस्य मूर्तािःक्षणभंगानुवर्तिनः ॥ ११० ॥ इति ते क्षुत्पिपासाद्यैरतिव्याकुलबुद्धयः। कायोत्सर्जनमुत्सृज्य दुद्रुवुश्च शनैः शनैः ॥ ११ ॥ स्वामिनम् कौलपुत्रांश्च मर्यादां चानुवर्तते । तावदेव जनो यावद् स्वशरीरस्य नितिः ॥११२॥ भक्षणं फलमूलादेरपां पानावगाहनं । कुर्वतां नमरूपेण स्वयंग्राहेण भूभृतां ॥ ११३ ॥
१ नः अस्माकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org