________________
हरिवंशपुराणं ।
१८२
नवमेः सर्गः ।
ततः शंखाः सभेरीका मुखरीकृतदिङ्मुखाः । दध्वनुर्वंशवीणाश्च पटहा बहुनिस्वनाः ॥। ८९ ।। नानानीकैः सुरैरूर्ध्वं चतुरंगबलैरधः । राजक्षत्रोग्रभोजाद्यैवजद्भिर्व्याप्तमीश्वरैः ॥ ९० ॥ ऊर्ध्व नवरसा जाता नृत्यदप्सरसां स्फुटाः । नाभेयेन किमुक्तानामधः शोकरसोऽभवत् ॥ ९१ ॥ सेव्यमानः सुरैरीशः सिद्धार्थं वनमाप सः। अशोकचंपका युग्म च्छिद चूतवरैश्चितं ॥ ९२ ॥ अवतीर्णः स सिद्धार्थी शिविकायाः स्वयं यथा । देवलोकशिरस्थाया दिवः सर्वार्थसिद्धितः ॥ ९३॥ ततः प्राह प्रजास्तत्र शोकं त्यजत भोः प्रजाः । संयोगी हि वियोगाय स्वदेहैरपि देहिनां ॥ ९४ ॥ राजा वो रक्षणे दक्षः स्थापितो भरतो मया । स्वधर्मवृत्तिभिर्नित्यं सेव्यतां सततं श्रियः ||९५॥ एवमुक्त्वा प्रजा यत्र प्रजापतिमपूजयन् । प्रदेशः स प्रजागारो यतः पूजार्थयोगतः ॥ ९६ ॥ आपृच्छच ज्ञातिवर्गं च राजकं च नतं विभुः । त्यक्त्वांतर्वहिः संगं संयमं प्रतिपन्नवान् ||१७|| पंचमुष्टभिरुत्खातान् विडौजा मूर्धजान् विभोः । प्रतिगृह्य कृतान् मूनि चिक्षेप क्षीरवारिधौ ॥ ९८ ॥ जाते निःक्रमणे जैने कृत्वा पूजां सुरासुराः । यथायथं ययुर्नत्वा चिंताक्रांताच मानवाः ॥ ९९ ॥ राजक्षत्रोग्रभोजाद्या स्वामिभक्तमहानृपाः । चतुःसहस्रसंख्याता मुख्या नाग्न्यस्थितिं श्रिताः । १०० ।। कायोत्सर्गेण षण्मासान् परीषहसहो जिनः । महातपाश्चतुर्ज्ञानी तस्थौ मौनी गिरिस्थिरः || १०१ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org