________________
हरिवंशपुराणं ।
नवमः सर्गः ।
दत्तास्थानो नृपैर्देवैर्वृतोऽभून्मणिभूषणैः । पूर्वापरायतैर्मरुर्यथाऽसौ कुलभूधरैः ॥ ७६ ॥ अथ वैश्रवणो दिव्यां निर्ममे शिविकां नवां । नाम्ना सुदर्शनां भूरिशोभयाऽपि सुदर्शनां ॥७७॥ ताराभरत्नजातीनां प्रभाभिरतिभास्वरा । मंडलाकृतिशुभ्राभ्रधवलातपवारणा ॥ ७८ ॥ चलच्चामरसंघातहंसमालांशुकोज्ज्वला | आदर्शमंडला खंडदीप्तदिमुखमंडला ॥ ७९ ॥ बुद्बुदापांडुगंडांतामूर्धचंद्रालिकाकृतिः । संध्याभ्रखंडसंरक्तविस्फुरद्विद्रुमाधरा || ८० ॥ पतज्जललवस्वच्छमुक्तादशनशोभिता । शुभकेतुपताकाली लीलाभुजलतोज्ज्वला ॥ ८१ ॥ दिङ्नागवासिता जंघारंभास्तं भोरुशोभिनी । चित्रस्त्रीतारकालोका जगतीजघनस्थला ||८२|| वारिधारास्फुरद्धाराशुंभत्कुंभपयोधरा । तारापुष्पवती रम्या सुनक्षत्रवृहत्फला || ८३ ॥ सुनीलघनकेशास कुबेरेण सुदर्शना | द्यौरिवोत्तमयोषेव कौशिकाय प्रदर्शिता ॥ ८४ ॥ अथ विज्ञापितो नाथः सुरनाथेन हर्षिणा । आपृच्छच पितृपुत्रादीन् परिवर्गे च संश्रितं ॥ ८५ ॥ गृहीतचामरच्छत्रैः सेव्यमानः सुरेश्वरैः । स द्वात्रिंशद्पदानुर्व्या पद्भ्यामेव प्रचक्रमे || ८६|| लोकांजलिपुटालोकशब्दाशीर्वादवंदितः । शिविकामाहरोहेशः सवितेवोदयश्रियं ॥ ८७ ॥ क्षितेः क्षितीश्वरोत्क्षिप्तां खमुत्पत्य सुरेश्वराः । सन्नाहिनः समायुस्तां शिरसाज्ञामिवेशितुः ||८८||
Jain Education International
१८१
For Private & Personal Use Only
www.jainelibrary.org