________________
१८०
हरिवंशपुराणं ।
नवमः सर्गः। ज्ञातपूर्वभवे तस्मिन्निति ध्यानपरे जिने । ब्रह्मलोकालया ज्ञात्वा लोकांतिकसुराम्तदा ॥६३॥ कुर्वाणाशंद्रसंकाशाश्चंद्राकीर्णमिवांबरं । नत्वा सारस्वतादित्यप्रमुखाः प्रोचुरीश्वरं ॥ ६४ ॥ साधु नाथ! यथाख्यातं स्वपरार्थहितं तथा । क्रियतां वर्तते कालो धमतीर्थप्रवर्तने ॥६५॥ चतुर्गतिमहादुर्गे दिग्मूढस्य प्रभो दृढं । मार्ग दर्शय लोकस्य मोक्षस्थानप्रवेशकं ॥ ६६ ॥ विच्छिन्नसंप्रदायस्य मंत्रस्येव चिरं प्रभो । सिद्धिमार्गस्य विश्वेश! कुरु द्योतनमुद्यतः ॥६७॥ दुःखत्रयमहावर्ते दोषत्रयमहोरगे । भ्रमतां भव भर्तस्त्वं कर्णधारो भवोदधौ ॥ ६८ ॥ त्वं संसारमहाचक्राद्धमतो वेगशालिनः । उपदेशकरणाशु विश्वमुत्तरय प्रभो ॥६९ ॥ विश्रामन्त्वधुना गत्वा संतस्त्वद्दर्शिताध्वना । ध्वस्तजन्मश्रमा नित्यं सौख्ये त्रैलोक्यमूर्धनि ॥७०॥ कीर्त्या लोकांतिकैर्वाचः स्वयंबुद्धस्य तस्य ताः । पूर्वार्थमेव संजाताः पत्युरापो यथा ह्यपां॥७१॥ सुत्रामाद्यैश्च संप्राप्तैश्चतुर्विधसुरेनेतैः। प्रोक्तं लोकांतिकः प्रोक्तं यत्तदेव मुहुर्मुहुः ॥ ७२ ॥ ऋषभोऽभात् स्वयंबुद्धो बोधितो विबुधैः सुरैः । भानोः प्रबुद्रपद्मोघो यथा पद्ममहाहृदः ।।७३॥ धीरपुत्रशतस्यासौ प्रविभक्तवसुंधरः । कृती दशशतस्येव कराणां रविराबभौ ॥ ७४ ।। अभिषिक्तस्ततो देवैः क्षीरार्णवजलैजिनः । दिग्धो गंधैर्वरैर्वस्त्रैर्भूषामाल्यैर्विभूषितः ॥ ७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org