________________
हरिवंशपुराणं ।
नवमः सर्गः। स दध्यौ च स्वयं बुद्धौ व्यावृत्तविषयस्पृहः। चिरंभोगसमासक्त्या लज्जितात्मात्मनात्मनः ॥५०॥ अहो परमवैचित्र्यं संसारस्य शरीरिणां । यत्र कर्मविधेयानां अन्ये यांति विधीयतां ।। ५१ ॥ सद्भावं दर्शयंतीयमतिनृत्यति नर्तकी । हावभावरसप्रायं विचित्राभिनयांगिका ॥ ५२ ॥ तोषिते मयि नृत्तेन शक्रः स्यात् किल तोषितः । ततस्तु सुखितामेषा संमोहादतिमन्यते ॥५३॥ धिग् जंतोः परतंत्रस्य सुरभ्रानुवनस्पृहं । पराराधनसक्तस्य यन्मनः सतताकुलं ॥ ५४॥ यत्स्वतंत्राभिमानस्य सुखं तदपि किं सुखं । स्वकर्मपरतंत्रस्य भोगतृष्णाकुलात्मनः ॥ ५५ ॥ आत्माधीनं यदत्यंतमात्माधीनस्य यत्सुखं । तदिद्रियार्थपराधीनं पराधीनस्य कर्मभिः ॥५६॥ नानंतेनापि कालेन नृसुरासुरभोगकैः । तृप्तिर्जीवस्य संसारे नद्योपैरिव वारिधेः ।। ५७ ॥ महाबलस्य विद्ये शो ललितांगस्य नाकिनः । वज्रजंघनरेंद्रस्य तथोत्तरकुरुस्थितः ॥ ५८ ॥ श्रीधरस्य सुरेशस्य सुविधेरच्युतस्थितेः । वज्रनाभेश्च सवार्थसिद्धिदेवस्य पश्यतः ॥ ५९॥ न तृप्तिस्तैरभूद् भोगैर्दिव्यैश्विरनिषेविते । यस्य तस्याद्य किं सा स्यात् सुलभैर्विपुलैरपि ॥६॥ तस्मात् सांसारिकं सौख्यं त्यक्त्वांते दुःखदृषितं । मोक्षसौख्यपरिप्राप्त्यै प्रविशामि तपोवनं ॥६१॥ विज्ञानोपिचिते राज्ये स्थितोऽहमितरो यथा । कालोपेक्षणमेतद्धि कालोहि दुरतिक्रमः ॥६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org