SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १७८ हरिवंशपुराणं। नवमः सर्गः। ततः पुत्रशतेनापि प्रजया च कलागमः । गृहीतः सुग्रहीतं च कृतं शिल्पिशतं जनैः ।। ३७ ॥ पुरग्रामनिवेशाश्च ततः शिल्पिजनैः कृताः । सखेटकर्वटाख्याश्च सर्वत्र भरतक्षितौ ।। ३८ ॥ क्षत्रियाःक्षततस्त्राणात वैश्या वाणिज्ययोगतः। शूद्राः शिल्पादिसंबंधाज्जाता वर्णास्त्रयोऽप्यतः॥३९॥ षड्भिः कमभिरासाय सुखितामर्थवत्तया । प्रजाभिस्तत्सुतुष्टाभिः प्रोक्तं कृतयुगं युगं ॥ ४०॥ सेंद्राः सुरास्तदागत्य कृत्वा राज्याभिषचनं । नाभेयस्य प्रजानांत सौस्थित्यं विदधुः परं ॥४१॥ अयोध्येति विनीतेति विनीतजनसंकुला । साकेतेति च विख्याता पुरी रेजे तदाधिकं ॥ ४२ ॥ इक्ष्वाकुक्षत्रियज्येष्ठा ज्ञातिज्ञा लोकबंधुना । भूमौ वृषभनाथेन स्थापितास्तेऽत्र रक्षणे ॥४३॥ कुरवः कुरुदेशेऽसावुग्रस्ते चोग्रशासनाः । न्यायेन पालनागोजाः प्रजानामपरे मताः ॥४४॥ राजानश्च तथैवान्ये जाताः प्रकृतिरंजनाः। श्रेयः सोमप्रभायैस्तैः कुरुपुत्रैस्तु भूरभूत् ॥ ४५ ॥ दिव्यान् भोगान सुरानीतान् भुंजानस्य जगद्गुरोः। पूर्वलक्षास्यशीतिश्च जग्मुराजन्मनस्ततः॥४६॥ सोऽथ नीलजसां दृष्ट्वा नृत्यंतीमिंद्रनतेकी । बोधस्यापि निबोधस्य निर्विवेदापयोगतः ॥४७॥ ये रागहेतवो बाह्या भावाः प्रागभवन् भुवि । ते स्युरंतर्निमित्तस्य शमे प्रशमहेतवः ॥ ४८ ।। य एव विषया रम्या मतिविभ्रमकारिणः । प्रशमानुगुणे काले त एव स्युः शमावहाः ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy