SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । नवमः सर्गः । अक्षरालेख्यगंधर्वगणितादिकलार्णवं । सुमेधावी कुमाराभ्यामवगाहयतिस्म सः || २४ ॥ अथान्यदा प्रजाःप्राप्ता नाभेयं नाभिनोदिताः । स्तुतिपूर्वं प्रणम्योचुरेकीभूय महार्त्तयः ||२५|| प्रभो कल्पदुमाः पूर्वं प्रजानां वृत्तिहेतवः । तेषां परिक्षयेऽभूवन् स्वयंच्युतरसक्षवः || २६ ॥ दिव्योक्षरसतृप्तानां रक्षितानां तवौजसा । प्रजानां नाथ ! दूरेण विस्मृता कल्पमादपाः ||२७|| इदानीं छिन्नभिन्नाच न क्षरंतीक्षवो रसं । यांति कालानुभावेन मृदवोऽपि कठोरतां ||२८|| फलभारवशा नम्रा दृश्यंते तृणजातयः । न विद्मो वयमेताभिः कथमन्नविधिर्भवेत् ।। २९ ।। सुरभीणां घटोनीनां महिषीणां च संततं । स्तनेभ्योऽक्षरत् भक्ष्यमभक्ष्यं वा तदुच्यतां ||३०|| कंठा श्लेषोदिताः पूर्वं सिंहव्याघ्रवृकादयः । अस्मानुद्वेजयंतीशः कुपुत्र इव सांप्रतं ॥ ३१ ॥ अतः क्षुधामहाग्रस्ता जीवनोपायदर्शनात् । स्वामिन्ननुगृहाणैता रक्षणाच्च भयात् प्रजाः ||३२|| ततो वीक्ष्य क्षुधाक्षीणाः प्रजाः सर्वा प्रजापतिः । कृत्वार्तिहरणं तासां दिव्याहारैः कृपान्वितः॥३३॥ सर्वानुपदिदेशासौ प्रजानां वृत्तिसिद्धये । उपायान् धर्मकामार्थान् साधनानपि पार्थिवः ॥३४॥ असिमषिः कृषिर्विद्या वाणिज्यं शिल्पमित्यपि । षट्कर्म शर्मसिद्धयर्थं सोपायमुपदिष्टवान् ||३५|| पशुपाल्यं ततः प्रोक्तं गोमहिष्यादिसंग्रहः । वर्जनं क्रूर सच्चानां सिंहादीनां यथायथं ॥ ३६ ॥ १२ Jain Education International १७७ For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy