SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १७६ नवमः सर्गः । श्रीललाटस्य नासायाः सुकर्णोत्पलनालयोः । सज्जचापभ्रुवोर्वापि वाचागोचरमत्यगात् ॥ १२ ॥ चंद्रचंद्रिका रात्रौ दिवादीप्त्या दिवाकरः । मुदे त्रिभुवने न स्यात् तस्य ताभ्यां तयोर्मुखं ॥ १३ ॥ पुंडरीकस्य पात्रेण नेत्रे श्रोते सृते समे । पिंडालक्तकरक्तं वा हस्तपादतलाधरं ॥ १४ ॥ शुद्धमौक्तिकसंघातघटिव घनद्युतिः । कुंदद्युतिमधाज्जैनी दंतपंक्तिरदंतुरा || १५ || सनवव्यंजनशते सहाष्टशतलक्षणे | पंचचापशतोच्छ्राये तथा हेमाद्रिसंनिभे ॥ १६ ॥ रूपशोभासमस्तेयं जिनस्य गदितुं सह । लेशेनापि न सा शक्या शक्रकोटिशतैरपि ॥ १७ ॥ स जगत्त्रयरूपिण्या नंदया च सुनंदया । प्रौढयौवनया प्रौढश्चिकीड विधिनाढया ॥ १८ ॥ स गौरीश्यामयोर्मध्ये स्तवकस्तनयोस्तयोः । जगत्कल्पद्रुमोऽभासील्लतयोरंगलग्नयोः ॥ १९ ॥ न सा कांतिर्न सा दीप्तिर्न सा संपद् न सा कला । अस्यानयोश्च या नाऽभूत् तत्र सौख्यं किमुच्यतां २० भरतानंदनं नंदा नंदनं चक्रवर्तिनं । भरताख्यं सुतां ब्राह्मीमपि युग्ममसूत सा ॥ २१ ॥ सुनंदा बाहुबलिनं महाबाहुबलं सुतं । तथैव सुष्ठुवेलाके सुंदरामपि सुंदरीं ॥ २२ ॥ अष्टानवतिरस्येति नंदायां सुंदराः सुताः । जाता वृषभसेनाद्या वेद्याश्वरमविग्रहाः ॥ २३ ॥ १ - भरत क्षेत्रजनानन्दनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy