________________
हरिवंशपुराणं।
अष्टमः सर्गः। स्रेहानपेक्षकैवल्यप्रदीपोद्योतिताखिलः । देशको मोक्षमार्गस्य निसर्गाद् भविता भुवि ॥ २१७ ॥ कालमष्टादशांभोधिकोटीकोटीप्रमाणकं । धर्मनामनि निर्मूलं नष्टे स्रष्टेह भारते ।। २१८ ।। स्वर्गापवर्गमार्गस्य मागणे भव्यदेहिनां । दिग्मोहांधधियां धीमान् जातस्त्वमुपदेशकः ॥ २१९ ।। जायतेऽभ्युदयश्रीशाः श्रया निःश्रेयसः श्रियः। सांप्रतं भुवि भव्यौघा नाथ त्वदुपदेशतः ॥२२०॥ प्रमाणनयमार्गाभ्यामविरुद्धेन जंतवः । त्वदुपज्ञेन मार्गेण प्राप्नुवंतु पदं प्रियं ।। २२१ ॥ प्रणतव्यः प्रयत्नेन स्तोतव्यस्त्वं हितार्थिनां । स्मर्तव्यः सततं नाथ जगतामुपकारकः ।। २२२ ॥ प्रणतेस्ते कृती कायो गुणिनी वाग्गुणस्तुतेः । प्राणिनां प्रणिधानेन गुणानां गुणवन्मनः ॥२२३ ॥ नमस्ते मृत्युमल्लाय नमस्ते भवभेदिने । नमस्ते जरसोंताय नमस्ते ध्वस्त कर्मणे ॥ २२४ ॥ नमस्तेऽनंबोधाय नमस्तेऽनंतदर्शिने । नमस्तेऽनंतवीर्याय नमस्तेऽनंतशर्मणे ॥ २२५ ॥ नमस्ते लोकनाथाय नमस्ते लोकबंधवे । नमस्ते लोकवीराय नमस्ते लोकबेधसे ॥ २२६ ॥ नमस्ते जिनचंद्राय नमस्ते जिनभानवे । नमस्ते जिनसोय नमस्ते जिनतायिने ॥ २२७ ॥ इति स्तुतिशतैः स्तुत्वा नत्वा शतमखादयः। भक्तिस्त्वय्यस्तु शस्तेति शतशस्तं ययाचिरे॥२८॥
१-आश्रयाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org