________________
१७४
हरिवंशपुराणं ।
अष्टमः सर्गः। ततः सरमसोद्यानसुरसंघातसेनया । वृतः शताध्वरो मेरोरुच्चचाल जिनान्वितः ॥ २२९ ॥ सुवर्णकर्णिकारोहराशिपिंजरविग्रहं । तमैरावतमारोप्य रौप्याद्रिमिव जंगमं ॥ २३० ॥ तामयोध्यां परायोध्यां ध्वजमालाविभूषितां । वादिनध्वनिधीरां स्वामध्यास्य ध्वजिनीमिव।।२३१॥ पोलोम्या मातुरुत्संग स्थापयित्वा जिनं ततः । जनको प्रणिपत्याशु कृतनेपथ्यविग्रह ।।२३२॥ नृत्यत्सुरांगनोद्भासि भास्वद्भुजवनावृतः । ननत तांडवारंभचलविश्वंभरो हरिः ॥ २३३ ॥ चिरं प्रेक्षकयोरग्रे नटित्वाऽऽनंदनाटकं । पित्रोः कृत्वोचितं देवैः सहेंद्रः स्वास्पदं ययौ ॥२३४॥ कोट्यस्तिस्रोऽर्द्धकोटी च वसुवृष्टिदिने दिने । मासान् पंचदशोत्पत्तेः प्राग जिनस्यापतद्गृहे ॥२३५॥ प्राप्तोऽभिषेकममेरेद्रगणैगिरींद्रे प्राप्तः सुतस्त्रिंभुवनेश्वर इत्युदारौ ॥ प्राप्ती महाप्रमदभारवशौ तदानीं नाभिश्च नाभिवनिता च सुखं स्ववेद्यं ।। २३६ ।। स्वर्गावतारजननाभिपवद्विभेदकल्याणवर्णनमिदं वृषभेश्वरस्य । भक्त्या सदा पठति योऽत्र शृणोति यश्च । कल्याणमेति स जनो जिनभास्करस्य ॥ २३७ ॥
इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ ऋषभनाथजन्माभिषेकवर्णनो नाम अष्टमः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org