________________
हरिवंशपुराणं।
१७१
अष्टमः सर्गः। ग्रंथितेन सुरस्त्रीभिर्माल्यकौशलचंचुभिः । मंडितो मुंडमालाग्रमंडनेनाद्रिमंडनः ।। १९१ ॥ भद्रशालो जगत्युच्चैर्जगतामभिनंदनः । सोऽभात्सौमनसोऽखंडयशसा पांडुकः स्वयं ॥ १९२ ।। विशेषको भुवामाशो विशेषकविभूषितः । विशेषतो बभौ देवविशेषकविभूषितः ॥ १९३ ॥ शिशोर्निरंजनस्यास्ये स्वजनांजितलोचने । परं जितार्कचद्राभिदीप्तिकांती बभूवतुः ।। १९४ ॥ श्रीशचीकीर्तिलक्ष्मीभिः स्वहस्तैः कृतमंडनः । स तथाऽऽखंडलादीनां देवानामहरन्मनः॥१९५॥ ततस्तमृषभं नाम्ना प्रधानपुरुष सुराः । युगाद्यमभिधायेत्थं शक्राद्याः स्तोतुमुद्यताः ॥ १९६ ॥ . मतिश्रुतावधिश्रेष्ठचक्षुषा वृषभ त्वया । जातेन भारते क्षेत्रे द्योतितं भुवनत्रयं ।। १९७ ।। नृभवाभिमुखेनैव भवताऽद्भुतकर्मणा । आवर्जितं जगद् येन किं जातस्यैतदद्भुतं ॥ १९८ ॥ पादाधःस्थापितोत्तुंगमानशृंगमहागुरुः । महागुरुस्त्वमीशानां शैशवेऽप्यशिशुस्थितिः ॥ १९९॥ अस्पृशंतो भुवं सर्वा पादात्रैः सुरपर्वताः। पादौ मुकुटकूटोच्चैः शिरोभिस्ते वहत्यमी ।। २००॥ मंत्रशक्तिरियं किंनु प्रभुशक्तिस्तथाऽथवा । प्रोत्साहशक्तिराहोश्वित् किमप्यन्यन्महाद्भुतं ॥२०१।। पौरुषाधिकमानीतं त्वया नाथ जगत्त्रयं । कथमेकपदे विश्वं विधिनेव विधीयतां ॥ २०२॥ क चेदं सौकुमार्य ते क च कार्कश्यमीदृशं । नाथान्योन्यविरुद्धार्थसंभवस्त्वयि दृश्यते । २०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org