________________
१७७
हरिवंशपुराणं।
अष्टमः सर्गः। ललाटपट्टविन्यस्ता सितचंदनचर्चिका । रराजा.दुरेखेव संध्या पीताभ्रवार्शिनी ॥१७९॥ सुरत्नहेमकेयूरभूषितौ च भुजा मृदू । रेजतुः सफणारत्नाविव बालभुजंगमौ ॥ १८० ॥ प्रकोष्ठौ ज्येष्ठमाणिक्यकटकप्रकटप्रभौ । अभातां रत्नशैलस्य तटाविव सुराश्रितौ ॥ १८१ ।। स्थूलमुक्ताफलेनास्य रेजे हारेण हारिणा । वक्षःस्थलं महीध्रस्य निझरेणेव सत्तटं ॥ १८२ ।। बभौ प्रालंबसूत्रण भास्वद्रत्नमयेन सः । कल्पद्रुम इवाश्लिष्टः कांतकल्पलतात्मना ॥ १८३ ।। विचित्रस्योपरिस्थेन कटिसूत्रेण वाससः । बभौ कटीतटीवाटेरभ्रस्य तडिदर्चिषः ।। १८४ ॥ चरणौ मणिसंकीर्णरणचरणभूषणौ । परस्परसमालापं कुर्वाणाविव रेजनुः ॥ १८५ ॥ मुद्रिकाभरणेनाभाद् रत्नहेमात्मना गलन् । स्वांगुलीबहुलावण्यरक्षामुद्रीकृतेन वा ॥ १८६ ॥ दिग्धश्चंदनपंकेन कुंकुमस्थासकाचितः । संध्यापीताभ्रलेशाक्तस्फटिकादिरिवाबभौ १८७ ।। उत्तरीयांबरं स्वच्छं हंसमालोज्ज्वलं सृतः । शुशुभेऽसौ शुभाकारः शरद्धन इवानघः ॥१८८॥ संतानपारिजातादिदेवलोकतरूद्भवैः । जलस्थलोद्भवै नासुरभिप्रसवैः शुभैः ॥ १८९ ॥ भद्रशालवनोद्भूतै रुंद्रनंदनसंभवैः । पुष्पैः सौमनसोद्भुतैः सपांडुकवनोद्भवैः ॥ १९ ॥
१ ' सन्ध्याभ्रदभ्रलेशाक्त' इत्यपि पाठः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org