SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १६९ अष्टमः सर्गः। ऐंद्राकुंभमहांभोदा दुग्धांभोंतरवार्षिणः । शिशोर्जिनगिरेरासन्न तदाऽऽयासहेतवः ।। १६६ ॥ जिनोच्छासमुहुःक्षिप्तक्षीरवारिप्लवेरिताः । प्लवंते स्म क्षणं देवाः क्षीरोघे मक्षिकाघवत् ॥१६७।। दृष्टः सुरगणैर्यः प्राग मंदरो रत्नपिंजरः । स एव क्षीरपूरौधैर्धवलीकृतविग्रहः ।। १६८ ॥ तदाऽत्यंतपरोक्षोऽपि प्रत्यक्षः क्षीरवारिधिः। कृतः खेचरसंघातैर्जिनजन्माभिषेचने ॥ १६९ ।। स्नानासनमभून्मेरुः स्नानवारिपयोंयुधेः । स्नानसंपादका देवाः स्नानमीदृग् जिनस्य तत्॥१७०॥ इंद्रसामानिकानेकलोकपालादयोऽमराः। क्रमेण चक्रुरंभोभिरभिषेकं पयोबुधेः ॥ १७१ ॥ अत्यंतसुकुमारस्य जिनस्य सुरयोषितः । शच्याद्याः पल्लवस्पर्शसुकुमारकरास्ततः ।। १७२ ॥ दिव्यामोदसमाकृष्टषट्पदोघानुलेपनैः । उद्वर्तयत्यस्ताः प्रापुः शिशुस्पर्शसुखं नवं ॥ १७३ ॥ ततो गंधोदकैः कुंभरभ्यर्षिचन् जगत्प्रभुं । पयोधरभरानम्रास्ता वर्षा इव भूभृतं ॥ १७४ ।। समं च चतुरस्रं च संस्थान दधतः परं । सुवर्षभनाराचसंघातसुघनात्मनः ।। १७ ।। कर्णावक्षतकायस्य कचिद् बज्रपाणिना । विद्धौ वज्रघनौ तस्य वनसूचीमुखेन तौ ॥ १७६॥ कृताभ्यां कर्णयारीशः कुंडलाभ्याममात्ततः। वृद्वीपः सुभानुभ्यां सेवकाभ्यामिवान्वितः॥१७७॥ चूलायां स्निग्धनीलायां पद्मरागमणि कृतः । परभागमसौ लेभे हरिनीलतनौ यथा ॥ १७८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy