SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १६८ हरिवंशपुराणं । अष्टमः सर्गः। प्रणम्य जिनमादाय चकार करयोहेरेः । तद्रूपातिशयं पश्यन् सहस्राक्षो न तृप्तिमैत् ॥ १५३ ॥ आरोप्य जिनमात्मांकमैरावतगजे स्थितः । सोऽत्यभादुदितादित्यः शिखरात्मेव नैषधः ॥१५४। छत्रच्छायापटच्छन्नं चामरोत्करवीजितं । जिनं निनाय देवौधैः सुमेरुशिखरं हरिः ॥ १५५ ॥ सप्रदक्षिणमागत्य पांडुकाख्यशिलातले । सिंहासने जिनं शक्रश्चक्रे चक्रेण नाकिनां ॥ १५६ ॥ क्षुभितांभोधिगंभीरा भरीपटहमर्दलाः । ताडिताः समृदंगाद्याः सुरैः शंखाश्च पूरिताः ॥१५७॥ जगुः किन्नरगंधर्वा स्त्रीभिस्तुबुरुनारदाः । सविश्वावसवो विश्वे चित्रं श्रोत्रमनोहरं ॥ १५८ ॥ ततं च विततं चैव घनं सुषिरमप्यलं । मनोहारि तदा देवैर्वाद्यते स्म चतुर्विध ॥ १५९ ॥ हावभावाभिरामं च नृत्यमप्सरसामभूत् । अंगहारकृतासंगं शृंगारादिरसाद्भुतं ॥ ६॥ इत्थं तत्र महानंदे देवसंधैः प्रवर्तिते । पूरिते प्रतिशब्दैश्च मंदरे रुंद्रकंदरे ॥ १६१ ॥ धृताऽऽकल्पेऽभिषेकार्थं सौधर्मेंद्रे ससंभ्रमे । साष्टमंगलहस्तासु प्रशस्तामरभीरुषु ॥ १६२ ॥ संघटैः सुरसंघातैर्महावेगमहाधनैः । सर्वदिक्षु गतैः क्षिप्रं क्षोभितः क्षीरसागरः ॥ १६३ ।। क्षीरापूर्णाः सुरैः क्षिप्ता राजताः करतःकरं । सौवर्णाश्च वभुः कुंभाश्चंद्रार्का इव मेरुगाः ॥१६४॥ कुंभनिरंतरारावैर्बद्भुदेवसहस्रकैः । क्षीरांभोभिजिनेंद्रस्य चक्रे जन्माभिषेचनं ॥१६५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy