________________
हरिवंशपुराणं।
१६७
अष्टमः सर्गः। श्वेतच्छत्रैर्ध्वजैश्वित्रैश्चामरैः फेनपांडुरैः । कुर्वाणाः सर्वमाकाशं समाकीर्णं निरंतरं ॥ १४० ॥ भेरीदुंदुभिशंखादिरवापूरितविष्टपं । नृत्यगीतैयुतं रेजे देवागमनमद्भुतं ।। १४१ ॥ सौधर्मेंद्रस्तदारूढो गजानीकाधिपं गजं । ऐरावतं विकुर्वाणमाकाशाकारवद्वपुः ॥ १४२ ॥ प्रोदंष्ट्रांतरविस्फारिकरास्फारितपुष्करं । प्रोद्वंशांकुरमध्योद्यद्भोगींद्रमिव भूधरं ॥ १४३ ॥ कर्णचामरशंखांकं कक्षानक्षत्रमालिनं । बलाकाहंसविद्युद्भिरिव तांतं महत्पथं ।। १४४ ॥ आरूढवारणेद्राणामिंद्राणां नित्रयुतः । जन्मक्षेत्रं जिनस्यासौ पवित्रं प्राप्तवान् सुरैः ॥ १४५ ।। नभसोऽवतरंती वै सा सुराऽसुरसंततिः । कुवेरकृतमद्राक्षीत् पुरं स्वर्गमिव क्षितौ ।। १४६ ॥ वप्रपाकारपरिखा परिवेषमनोहरं । सोद्यानकाननारामसरोवापीविराजितं ॥ १४७ ॥ इंद्रनीलमहानीलवज्रवैडूयभित्तयः । प्रासादाः पद्मरागादिप्रभाढ्या यत्र रेजिरे ॥ १४८ ॥ सुराणामसुराणां च तत्पुरश्रीविलोकिनां । मनोऽभूद्दरितोत्कंठं स्वर्गपातालजश्रियः ॥ १४९ ॥ यतः साकमितं यत्प्राक् सुरासुरजगत्त्रयं । पुरं तत्कीर्तिमत्तस्मात्साकेतमिति कीर्तितं ।। १५० ।। ततः समं पुरं देवैस्त्रिःपरीत्य पुरंदरः । प्रविश्य जिनमानेतुमादिदेश शची शुचिं ।। १५१ ॥ लन्धादेशा जनन्याः सा प्रविश्य प्रसवालयं । सुखनिद्रां विधायान्यं शिशुं च सुरमायया॥१५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org