________________
हरिवंशपुराणं ।
१६६
अष्टमः सर्गः ।
अतो विस्फुरितेनायमधिज्ञानचक्षुषा । तं तीर्थकर मुत्पन्नमाद्यमैक्षिष्ट भारते || १२७ ॥ आसनादवतीर्याशु क्रांत्वा सप्तपदानि स । जयतां जिन इत्युक्त्वा प्रणनाम कृतांजलिः || १२८ || पुनश्चासनमारुह्य समाज्ञापयतिस्म सः । ध्यानानंतरमानम्य स्थितं सेनापतिं पुरः ।। १२९ ।। अस्यामाद्योऽवसर्पिण्यां जातस्तीर्थकरोऽधुना । गंतव्यं भारतं देवैर्योध्यतां ते त्वयान्विति ॥ १३० ॥ स्वाम्यादेशे कृते तेन चेलुः सौधर्मवासिनः । देवैश्वाच्युतपर्यंताः स्वयं बुद्धाः सुरेश्वराः ॥ १३१ ॥ यथास्वं स्वं निमित्तेभ्यः प्रतिबुद्धाः प्रहर्षिणः । निश्चेलुर्निज लोकेभ्यो ज्योतिव्यंतर भावनाः ॥ १३२ ॥ गजाश्वरथसंघट्टपदातिवृषभैस्तदा । गंधर्वनर्तकी मिश्रः सप्तानीकैश्चितं नभः ।। १३३ ।। महिषाद्यैश्च नावाद्यैः खड़ाद्यैर्गरुडादिभिः । शिविकाश्वोष्ट्रम करद्विपहंसादिभिस्तथा ।। १३४ ॥ दशानामसुरादीनां कुमाराणां यथाक्रमं । सप्तानी कैर्नभो व्याप्तं बभासे नितरां तदा ॥ १३५ ॥ विमानानि समारूढा गोवृषान् गवयान् रथान् । अश्वान् शरभशार्दूलान् मकरान् करभान् सुराः ॥ वराहमहिषान् सिंहान् पृषतान् द्वीपिनो द्विपान् । चमरान् हरिणांश्चारुरुरून् केचिद् गरुत्मतः ॥ १३७|| शुकान् परभृतान् क्रौंचान् कुरुरान् शिखिकुक्कुटान् । परे पारावतान् हंसान् सकारंडवसारसान् aaraamaौघान् कादीन समधिष्ठिताः । चतुर्देवनिकायास्ते सह जग्मुरितस्ततः ।। १३९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org