SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १६४ अष्टमः सर्गः । १०७ ॥ ज्ञाननेत्रैः त्रिभिः पश्यन् विश्वं मासानसौ सुखं । नव गर्भगृहेऽतिष्ठद्दिक्कुमारी विशोधिते ॥ १०२॥ पूर्णेषु तेषु मासेषु निपतद्वदृष्टिषु । जिनं सा सुषुवे देवी सोशराषाढसंनिधौ ॥ १०३॥ प्राच्या इव विशुद्धाया विशुद्धस्फटिकोपमात् । घनोदराद्विनिक्रांतो जिनः सूर्य इवाबभौ ॥ १०४॥ जातकर्मणि कर्त्तव्ये व्यापृता लघुदेवताः । अंतरंगा हि कर्त्तव्ये व्याप्रियते जगत्परं ।। १०५ ।। विजया वैजयंती च जयंती चापराजिता । नंदा नंदोत्तरा नंदी नंदीवर्द्धनया सह ॥ १०६ ॥ आलोलकुंडला लोकविलसद्गंडमंडलाः । एतास्ता दिक्कुमार्योऽष्टौ तस्थु भृंगारपाणयः ॥ सुस्थिता प्रणिधान्या सु-प्रबुद्धा च यशोधरा । लक्ष्मीमती तथैवान्या कीर्तिमत्युपवर्णिताः॥ १०८ ॥ वसुंधरा तथा चित्रा चित्राभरणभास्वराः । दिक्कमार्य इमाचाष्टौ तस्थुर्दर्पणपाणयः ।। १०९ ।। इला सुरा पृथिव्याख्या पद्मावत्यपि कांचना । सीता नवमिकाऽन्या च दिक्कन्या भद्रकाभिधा ॥ अष्टौ तुष्टाः प्रकृष्टांगप्रभाभाषितदिङ्मुखाः । धवलान्यातपत्राणि धारयति स्म विस्मिताः ॥ १११ ॥ ही : श्रीः धृतिः परा सा च वारुणी पुंडरीकिणी । अलंबु सांबुजास्यश्री मिश्रकेशीति विश्रुताः ॥ ११२ ॥ hurत्कनकदंडानि णत्कनककुंडलाः । चामराणि गृहीत्वाष्टौ दिक्कुमार्यः स्थिता इमाः ॥ ११३ ॥ १ कनत् । २- कनत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy