SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। अष्टमः सर्गः । धौतेवासं गृहीत्वाऽसौ धौतच्छायाविनिर्गता | शुशुभे शारदाभोदात् तन्वीव शशिनः कला ॥८९॥ श्रीविद्युदिक्कुमारीभिः प्रत्यग्रकृतभूषणा । सांऽतर्गभांऽतिकं याता धनश्रीनाभिभूभृतः ॥१०॥ भद्रासनस्थितायाऽस्मै क्रमेण स्वासनस्थिता । श्रीरिवावेदयत् स्वप्नान् सत्करांभोजकुड्मला ॥११॥ स्वप्नार्थ सोऽवधायैतां जगाद दयिते ध्रुवं । सकांतोऽद्य त्रिलोकानां नाथस्तीर्थकरस्त्वयि ॥१२॥ न दूराल्पफलप्राप्तावीदृशं स्वप्नदर्शनं । अतोऽद्यैव प्रतीता मे भवत्यां गर्भसंभवः ॥ ९३ ॥ पण्मासवसुवृष्टया च देवतापरिचर्यया । सूचिता जिनसंभूतिर्या साद्य फलिताऽऽवयोः ॥ ९४ ॥ सर्वथा सर्वकल्याणभाजनात्मजजन्मना । प्रिये ! त्वमचिरेणैव जगदानंदयिष्यसि ॥ ९५॥ इति सुस्वप्नफलं श्रुत्वा सद्यः संभूतमात्मनि । मुमुदेऽतितरां देवी दीप्तिं कांतिं च बिभ्रती ।। ९६ ॥ तृतीयकालशेषेऽसावशीतिश्चतुरुत्तरा । पूर्वलक्षाविवर्षाष्टमासपक्षयुतास्तदा ।। ९७ ॥ स्वर्गावतरणं जैनमाषाबहुलस्य तु। द्वितीयामुत्तराषाढनक्षत्रेत्र जगन्नतं ।। ९८ ॥ बर्धमाने क्रमाद् गर्भे वर्धते वपुषो वपुः । तस्यास्त्रिवलिशोभाया भंगभीत्येव नोदरं ॥ ९९ ॥ गौरवातिशयाधानी दधाना त्रिजगद्गुरुं । लाघवातिशयं देहे दध्र चित्रमिदं परं ॥ १० ॥ संतापहेतुरंतस्थो मातुर्माभूत सुनिश्चलः । ज्ञानवान् स जिनो भानुर्यथाऽप्सु प्रधिवतः ॥१०१॥ १ धौतवासगृहीता इति घ पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy