________________
१६२
हरिवंशपुराणं।
अष्टमः सर्गः। विबुद्धस्व विबुद्धार्थे विवर्धस्व विवर्धने । विजयस्व जयश्रीशे देवि पूर्णमनोरथे ॥७७॥ इत्यादयो विवोधाय दिक्कुमारीभिरीरिताः। याताः स्वयं विबुद्धायाः केवलं मंगलं गिरः ॥७८॥ दोषाकरः कलंक्येष निःकलंकगुणाकरं । दृष्ट्व मुखचंद्रं ते हिया भवति निष्प्रभः ॥७९॥ तवैव गृहमुद्योत्यं दशनप्रभयाऽधुना । इतीव स्फुरितव्याजात् प्रदीपाः त्वं हसंत्यमी ॥८॥ अत्यंतमुखरागाढ्या क्षणरंजितविप्रिया । प्रस्खलत्खलमैत्रीव बंध्या संध्या विरज्यते ॥८॥ स्वभावमत्सरारंभा व्यापिकोदयमेष्यतः । प्रभा खेरवध्यार्था साधोमैत्रीव वर्द्धते ।।८२॥ भास्वरांबरभूषा भाति भास्वद्विशेषका । पुरंध्रीरिव पूर्वाऽशा मंगलाय तवोद्गता ॥८३॥ दीर्घा नीत्वा निशामेषा दीर्घिकास्विनदर्शने । तुष्टा स्वान् घटत्येव चक्रवाकी कलारवान् ॥८४॥ त्वत्पादन्यासलीलायामीक्षणार्थमिवाकुलं । त्वामुत्थापयते कूजत्कलहंसकुलं कलं ॥ ८५ ॥ घूर्मिता मृदुवातेन धृताभिनयमूर्तयः । भवत्या दर्शयंतीव नृत्चारंभममी द्रुमाः ॥ ८६ ॥ दिङ्मुखानि प्रसन्नानि चेष्टितानीव तेऽधुना । सुप्रभातमिदं देवि मुंच शय्यामनिंदिते ॥८७॥ इति बंदिजनैवैद्या साऽमुंचत् शुचिविग्रहा । शय्यां पुष्पतरंगाढ्यां हंसीव सिकतास्थली ||८८t
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org