SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । अष्टमः सर्गः। अंगरक्षापरा देव्यः खगव्यग्राग्रपाणयः । ग्रहरक्षपिशाचेभ्यो रक्षत्यः प्रतिजाग्रति ॥ ५२ ॥ अभ्यंतरगृहद्वारे काश्चित्काश्चिद्वहिर्बभुः । असिचक्रगदाशक्तिहेमवेत्रकराः स्थिताः ॥५२॥ इति नक्तं दिवं दृष्ट्वा देवताभिरनुष्ठितं । आत्मनः शासनं लोके परेषामतिदुर्लभं ॥ ५४ ॥ निश्चितश्चापि षण्मासान् पतंत्या वसुधारया । नाभिना मरुदेव्या च पायंस्तीर्थकरोद्भवः॥५५॥ अथासौ सौम्यताराभिरभितः कृतसेवना । मरुदेवी सुरस्त्रीभिश्चंद्रलेखेव हारिणी ॥ ५६ ।। शरदभ्रावलीशुभ्रे प्रासादेऽगरुधूपिते । नानोपधानकाधाने शयाना शयने विधौ ॥ ५७ ॥ निधीनिव निशाशेषे ददर्श शुभसूचकान् । क्रमेण षोडशस्वप्नानिमान दुर्लभदर्शनान् ।। ५८ ।। प्रभूतदानधाराकरपुष्करधारिणं । गीयमानं शुचिं मँगैर्दानाधिभिरिवेश्वरं ॥ ५९॥ सुप्रतिध्वनिविक्षिप्तप्रतिपक्षं शुभोदयं । शुभ्रं भद्राकृतिं धीरं तृपं वृषमिवोन्नतं ॥६०॥ मत्तेभं तमिवान्वेष्टुं मदगंधेन सूचितं । सिंहमुत्थितमद्राक्षीनखदंष्ट्रासटोत्कटं ॥६१॥ चित्ररत्नघटाटोपघनघांषघनाघनः । श्रियोऽभिषेकमम्भोजे नवांभोभिरिवावनेः ॥६२।। नानापुष्पधने दीर्घ श्रीमाले सौरभोत्कटे । संभूयेव च सर्वतुश्रीभिः सेवार्थमुद्भते ॥६३॥ अधोमुखमयूखोद्यदंडमातपवारणं । ताराभरणयोरिक्षप्तं श्यामयेवेंदुमंडलं ॥६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy