________________
१५९
हरिवंशपुराण।
अष्टमः सर्गः। प्रयुज्य प्रणतिं तुष्टा जिनपित्रोभविष्यतोः । स्वनिवेद्यागमं स्वं च पाकशासनशासनात ॥४०॥ प्रत्येक शासनं देव्यो मरुदेव्या महादरात् । प्रतीषुर्देवि ! देशाज्ञां नंद जीवेति सगिरः ॥४॥ रूपयौवनलावण्यसौभाग्यादिगुणार्णवं । वर्णयति तदा काश्चिदाश्चर्य परमं श्रिताः ॥४२॥ अक्षरालेख्यगंधर्वगणितागमपूर्वकं । कलाकौशलमन्यास्तु प्रशंसंति समंततः ॥४३॥ दर्शयंति स्वयं काश्चित् तंत्रीवीणादिकौशलं । गायंति मधुरं गेयं काश्चित्कर्णरसायनं ॥४४॥ शोभनाभिनयं काश्चिद् शंगारादिरसोत्कटं । हावभावविलासिन्यो नृत्यंति नयनामृतं ।। ४५॥ हस्तसंवाहने काश्चित् पादसंवाहने पराः । अंगसंवाहने काश्चित् व्यावृत्ता मदुपाणयः ॥ ४६॥ अंगाभ्यंगविधौ काश्चिद् काश्चिदुद्वर्गने पराः। काश्चिन्मज्जनके काश्चित्स्नानवस्त्रनिपीलने ॥४७॥ संद्धानयने काश्चित् तत्समालभने पराः। काश्चिच्चित्रांबराधाने परिधानविधौ पराः॥४८॥ काश्चिद्भूषास्रगाधाने काश्चिदेहप्रसाधने । दिव्यान्नानयने काश्चित् काश्विद्भोजनकमणि ॥४९॥ शय्यासनविधौ काश्चित् काश्चित्तांबूलढोकने । काश्चित्पतद्ग्रहे व्यग्राः काश्चिञ्च गृहकर्मणि ॥५०॥ दर्पणग्रहणे काश्चिच्चामरग्रहणे पराः। क्षत्रस्य ग्रहणे काश्चित् व्यजनग्रहणे पराः ॥ ५१॥
१-इन्छ ।२-निपीडने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org