________________
हरिवंशपुराणं ।
१५८
अष्टमः सर्गः ।
अखंडमंडलचंद्रो मुखमंडलशोभया । यस्याः पराजितः प्रापदाधिनेवातिपांडुतां ॥ २८ ॥ षोडशल्पकलावत्या द्वासप्ततिकलोज्वला | इंदुभूत्यपमीयेत सा कथं सकलंकया ॥ २९ ॥ चतुःषष्टिगुणोत्कृष्टा मार्दवातिशया कथं । सा चतुर्गुणया तुल्या पृथिव्या कठिनात्मना ॥ ३०॥ स्निग्धाभिरपि सुस्निग्धा सौष्ठवात्मा जलात्मभिः । कथं साऽन्यप्रणेयाभिरद्भिरप्युपर्मायते ॥ ३१ ॥ तद्द्भासुररूपापि कथं वा दहूनात्मिका । मेने' तेजोमयी मूत्तिस्तन्मूर्तेरुपमानतां ||३२|| दर्शनस्पर्शनाभ्यां या नाभेरतिसुखावहा । स्पर्शमात्रसुखाहय वायुमूर्च्छा कथं समा ||३३|| अशून्यहृदयस्पर्शा भर्तुर्या स्पर्शशून्यया । साऽकाशात्मिकया शक्त्या शुद्धयाऽपि कथं समा ||३४|| चतुर्दशविधं यस्याः कल्पपादपकल्पितं । अंगप्रत्यंगसंगेन भूषणं भूष्यतां गतं ॥ ३५ ॥ भुंजानस्य तया नाभेभगं स्वर्लोकसंनिभं । वक्तुं शक्तौ यदि व्यक्तं वक्ता शुक्रवृहस्पती || ३६ || अथ तीर्थकृतामाद्ये स्वर्गात् सर्वार्थसिद्धितः । तयोः प्रागेव षण्मासान् वृषभोऽवतरिष्यति ||३७|| दिवः पतितुमारब्धा वसुधारा गृहांगणे । प्रत्यहं धनदोन्मुक्ताः पुरुहूतनिदेशतः ||३८|| श्रीलक्ष्मीवृति की द्या नवतिर्नव चाययुः । प्राग्विद्युद्दिक्कु मार्योऽपि दिवि दिग्भ्यः ससंभ्रमाः। ३९ १ - भेजे तनुमयी इति क पुस्तके | २ - चागताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org