SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १५७ हरिवंशपुराणं । अष्टमः सर्गः। प्रदक्षिणकृतावर्त्त गंभीरं नाभिमंडलं । रोमराजिकृतासंगं यस्या नाभेरमून्मुदे ॥ १५ ॥ अरोमशं कृशं मध्यं यस्यास्त्रिवलिभंगुरं । बभौ वृत्तसमोतुंगधनस्तनभरादिव ॥ १६ ॥ कठिनस्तनचक्राभ्यां यस्या मृदुाभियोरसा । प्रक्रीडच्चक्रवाकाभ्यां सरितेव विराजितं ॥ १७ ॥ रक्तहस्ततलौ श्रेष्ठप्रकोष्ठमणिबंधनौ । स्वसौ मृदुभुजौ यस्याः कामपाशो बभूवतुः ॥ १८ ॥ शंखावतेसमग्रीवा प्रबालाधरपल्लवा । दंतमुक्ताफलोद्योता सिंधोलेव या बभौ ॥ १९ ॥ संरक्ततालुजिह्वाग्रमंतरास्यमराजत । यस्यां वाचि प्रवृत्तायां कोकिलस्वननिस्वनं ॥ २० ॥ प्रियामुखमिवात्मीयं दिदृक्षोः प्रेयसो मुखं । संमुखौ भवतो यस्याः कपोलाविव दर्पणौ ॥ २१॥ सन्नासिकाभिमध्यस्था समा समपुटाभ्यभात् । स्पद्भुिन्योवोरयंतीव दृशोरन्योन्यदशेनं ॥२२॥ त्रिवर्णाब्जनिभे यस्या दर्शने दीर्घदर्शने । मंत्रस्य मंत्रणायेव कर्णमूलमुपाश्रिते ॥ २३ ।। तनुरेखभुवो यस्या न दूरे न च संहते । समारोपितचापाभे शुशुभाते शुभावहे ॥ २४ ॥ न नतस्य न तुंगस्य सादृश्यसिसूक्षया । यस्या ललाटपट्टस्य नार्धेदुरभवत् स्थितिः ॥ २५ ॥ बुंडलोज्वलगंडस्य यत्कर्णयुगलस्य तु । नोपमा मांसलस्यासीत् कोमलस्य समस्य तु ॥ २६ ॥ नीलकुंचितसुस्निग्धसूक्ष्मकेशकलापिनः। समस्य शिरसो यस्याः शोभा वापथमत्यगात् ।।२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy