________________
१५६
हरिवंशपुराणं ।
अष्टमः सर्गः । प्रक्षीणः कल्पवृक्षात्मा मध्ये दक्षिणभारतं । नाभेरपि स एवाभूत् प्रासादः पृथिवीमयः ॥२॥ शातकुंभमयस्तंभो विचित्रमणिभित्तिकः । पुष्पविद्रुममुक्तादिमालाभिरुपशोमितः ॥३॥ सर्वतोभद्रसंज्ञोऽसौ प्रासादःसर्वतो मतः । सैकाशीतिपदः शालवाप्युद्यानाद्यलंकृतः ॥ ४ ॥ स्वस्थानमेककोऽनल्पकल्पवृक्षवृतः क्षितौ । अध्यतिष्ठदधिष्ठातः स नाभेरनुभावतः ॥ ५॥ अथ नाभेरभूद्देवी महादेवीति बल्लभा । देवी शचीव शक्रस्य शुद्धसंतानसंभवाः ॥ ६॥ अभ्युनतो पदांगुष्ठौ प्रोल्लसन्नखमंडलौ । यस्या रेजतु रुच्येव ललाटस्य दिदृक्षया ॥ ७ ॥ उन्नताग्रसमस्निग्धतनुताम्रनखांशुभिः । कुट्टिमे कुरुतां यस्याः क्रमौ कुरवकश्रियं ।। ८॥ श्लिष्टांगुलिदलौ गूढगुल्फो कांतिजलप्लवौ । समौ कूर्मोन्नती यस्याः पादपद्मौ प्रचक्रतुः॥९॥ यस्याश्च चरणौ चारुमत्स्य शंखादिलक्षणौ । क्रीडास्वेव प्रियस्पर्शात्स्वेदसंबंधसंगिनौ ॥ १०॥ आनुपूर्व्यसुवृत्ते च जंघे रोमशिरोज्झिते । लावण्यरसवर्णाढये शरधी पुष्पधन्वनः ॥ ११॥ जानुनी मृदुनी यस्या गूढसंधानवर्शिनी । ददतुः प्रियगात्राणां मृदुस्पर्शकृतं सुखं ॥ १२ ॥ असाराः कदलीस्तंभाः कर्कशाः करिणां कराः। परिणाह गुणत्वेऽपि यदूर्वोः सदृशान ते ॥१३॥ ऊरू संधिनितंबश्च कुकुंदरमनोहरः । गुरुर्जघनभारश्च यस्याः सादृश्यमत्यगात् ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org