SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १५५ अष्टमः सर्गः । शतान्यष्टादशोत्सेधो धनूंष्यासन्प्रतिश्रुतेः । त्रयोदश तु पुत्रस्य पौत्रस्याष्टशतान्यतः || १७१ ॥ परतः क्रमहानिस्तु धनुषां पंचविंशतेः । स पंचविंशतिशेषाः नाभेः पंचधनुःशती ॥ १७२ ॥ आद्यसंस्थानसंघातगंभीरोदारमूर्त्तयः । स्वपूर्वभवविज्ञाना मनवस्ते चतुर्दश || १७३ || चक्षुष्मांश्च यशस्वी च तथैवासौ प्रसेनजित् । त्रयः कुलकराः प्रोक्ताः प्रियंगुश्यामरोचिषः ॥ १७४॥ चंद्राभचंद्रगौराभस्तथैव प्रथितः प्रभुः । कथिता दश शेषास्ते संतप्तकनकप्रभाः ।। १७५ ।। मर्यादारक्षणोपायहामाधिक्कारनीतयः । प्रजानां जनकाभास्ते प्रभवः प्रतिभाधिकाः || १७६ || इत्थं कुलकरोत्पत्तिः सकला कथिता नृप । नाभेयस्याधुनोत्पत्तिं शृणु पापविनाशिनीं ।।१७७॥ जगद् षद्भिर्द्रव्यैरनुपचरितैर्व्याप्तमखिलं तदप्यज्ञानादधिकमभियुक्तैरधिगतं । यतः कालाद्यर्थे धनमपि धुनात्यंधतमसं, जिनादित्यालोकः स्थिरपरिणतः श्रीमदुदयः ॥ १७८ ॥ इति “अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ कालकुल करोत्पत्तिवर्णनो नाम सप्तमः सर्गः । अष्टमः सर्गः । श्रीमतामनुरूपं यः परिणाममनुसृतः । मननात् मनुजार्थस्य मनुसंज्ञामनुसृतः ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy