SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १५४ सप्तमः सर्गः । कोटीभागं स पल्यस्य दशताडितमीडितः। भुक्त्वा भोगमुदात्तोऽपि स्वरितोऽभूत्स्थितिक्षये१५९ ।। तदपत्यं यशस्वीति स्त्रकालेऽपेत्य माख्यया । प्रजया योजयत्प्रायो योजितो यशसाऽरुणा ॥ १६० ॥ कोटीभागं स पल्यस्य शतसंगुणितं प्रभुः । जीवित्वोत्पाद्य सत्पुत्रमाभचंद्रं दिवं गतः ॥ १६९ ॥ तत्कालेऽपत्यमुत्क्षिप्य प्रजा रमयति स्म यत् । अभिचंद्रमतः प्रापत्सोऽभिचंद्र इति श्रुतिं ॥ १६२ ॥ कोटी भागं स पल्यस्य सहस्रगुणितं गुणी । संजीव्योत्पाद्य चंद्राभं तनयं प्रययौ दिवं ।। १६३ ।। कोटी भागं सहस्रं तु तस्यायुर्दशसंगुणं । पल्यस्य मरुदेवं स मासं पुत्रमलालयत् ॥ १६४ ॥ मरुदेवस्य काले च मातः पितरिति ध्वनिं । शुश्राव शिशुयुग्मस्य प्रथमं मिथुनं कलं ।। १६५ ।। एकमेवासृजत्पुत्रं प्रसेनजितमत्र सः । युग्मसृष्टेरिहोर्ध्वमितो व्यपनिनीषया ॥ १६६ ॥ प्रसेनजितमायोज्य प्रस्वेदेमलभूषितं । विवाहविधिना वीरः प्रधानकुलकन्यया ॥ १६७॥ कोटीभागसहस्रं स पल्यस्य शतसंगुणं । संजीव्य मरुदेवोऽपि महतां लोकमुद्ययौ ॥१६८ || पूर्वकोट्यायुषं नाभिं प्रसेनजिदजीनत् । नाभिच्छेदव्यवस्थायाः कर्त्तारं स्वर्गगामिनं ॥ १६९ ॥ दशानां कोटिलक्षाणां पल्यांशानामथांशकं । जीवित्वा कालधर्मेण प्रसेनजिदितो दिवं ॥ १७० ॥ १ - पक्षमत्तया इति क पुस्तके । २ - 'लव' इत्यपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy