________________
हरिवंशपुराणं।
१५३
सप्तमः सर्गः। प्रतिश्रुतं वचस्ताभिर्यतस्तस्य गुरोर्यथा । प्रथमं प्रथितस्तस्मात्स पृथिव्यां प्रतिश्रुतिः ।।१४७॥ पल्यस्य दशमं भागं जीवित्वाऽसौ प्रतिश्रुतिः। पुत्रं सन्मतिमुत्पाद्य जीवितांते दिवं स्मृतः । ४८। स रक्षन् पितृमर्यादां प्रजानां सम्मतो यतः । ततः सन्मतिनामायं कुलकारी कलालयः ॥१४९।। पल्यस्य शतमं भागं स प्रतिजीव्य निजस्थितिं । पुत्रं क्षेमंकराभिख्यमुत्पाद्य त्रिंदिवं गतः ॥१५०॥ प्रजानां च तदा जाताः सिंहव्याघ्रादिभीषकाः। सोऽपि क्षेमं ततः कृत्वा प्राप्तः क्षेमंकरश्रुतिं ॥१५१।। सहस्रभागमाजीव्य पल्यस्यासौ प्रजां प्रभुः । पुत्रं क्षेमंधराभिख्यं जनयित्वा गतो दिवं ।।१५२ ।। क्षेमंधरः स मत्वार्यस्थिति कुलकरो गुरोः । सहस्रभागमाजीव्य पल्यस्य दशसंगुणं ॥ १५३ ॥ सूनुं सीमंकरं नाम्ना सुमुत्पाद्य ययौ दिवं । वृक्षलुब्धमजानां च स सीमामकरोत् प्रभुः ॥१५४॥ लक्षभागं स पल्यस्य जीवित्वा स्वर्गगोऽभवत् । सीमधरो यथार्थाख्यस्तत्सुतो दशताडितं ॥१५५॥ तत्पुत्रो वाहिनीकृत्य चिक्रीड विपुलदिपान् । यत्तत्ख्यातः स भूम्नाऽभूत् नाम्ना विपुलवाहनः।।१५६॥ कोटीमागं स एल्यस्य जीवित्वा स्वर्गमाश्रितः । चक्षुष्मानिति तत्सुनुरजनिष्ट जनप्रभुः ॥१५७।। पुत्रचक्षुर्मुखालोकाच्चक्षुर्मत्वा भियाऽनया । आयुष्मत्प्रजया गीतश्चक्षुष्मानित्यसौ प्रभुः ॥ १५८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org