SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १५२ सप्तमः सर्गः। तेजोहीनेऽधुना लोके ज्योतिरंगप्रभाक्षये । जिगीषयेव चंद्राकौं स्थितौ प्रकटविग्रहौ ॥१३५ ॥ अहोरात्रादिको भेदो भवत्यर्कवशादिह । अधुनेंदुवशाद् व्यक्तिः पक्षयोः शुक्लकृष्णयोः ॥१३६॥ शीतदीधितिरस्ताभो धर्मदीतिना दिवा । न स्पष्टः स्पष्टतामेति ज्योतिश्चक्रसखो निशि ॥१३७॥ पूर्वजन्मनि युष्माभिदृष्टपूर्वाविमौ स्फुटं | विदेहेषु यतस्तस्मान्नाद्य वोऽपूर्वदशेनों ॥१३८॥ दृष्टश्रुतानुभूतस्य वस्तुनः सति दर्शने । माभूदुत्पातशंका वो निर्भया भवत प्रजाः ॥१३९॥ कालस्वभावभेदेन स्वभावो विद्यते ततः । द्रव्यक्षेत्रप्रजावृत्तवैपरीत्यं प्रजायते ॥१४०॥ अव्यवस्थानिवृत्यर्थमतः परमतः प्रजाः। हा मा धिक्कारतो भूताः तिस्रो वै दंडनीतयः।।१४१॥ मर्यादोल्लंघनेच्छस्य कथंचित्कालदोपतः । दोषानुरूपमायोज्याः स्वजनस्य परस्य वा ॥१४२॥ नियांत्रितो जनः सर्वस्तिसृभिदंडनीतिभिः । दृष्टदोषभयत्रस्तो दोषेभ्यो विनिवर्तते ॥१४३॥ रक्षणार्थमनर्थेभ्यः प्रजानामर्थसिद्धये । प्रमाणमिह कर्तव्याः प्रणीता दंडनीतयः ॥१४४।। प्रासादेषु यथास्थानं मिथुनान्यकुतोभयं । अनुस्मृत्यावतिष्ठत्वऽस्मदीयमनुशासनं ॥१४५|| इत्युक्त्वा प्रतिपद्याऽऽशु वचस्तस्य प्रजापतेः। श्रुत्वा तस्थुर्यथास्थानं प्रजातप्रमदाः प्रजाः ॥१४६।। १-हितसिद्धये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy