________________
हरिवंशपुराणं।
१५१
सप्तमः सर्गः । अथ कालद्वयेऽतीते क्रमेण सुखकारणे । पल्याष्टभागशेषे च तृतीये समवस्थिते ॥ १२२ ॥ क्रमेण क्षीयमाणेषु कल्पवृक्षेषु भूरिषु । क्षेत्रे कुलकरोत्पत्ति श्रृणु श्रेणिक! साप्रतं ।। १२३ ॥ गंगासिंधुमहानद्योर्मध्ये दक्षिणभारत । चतुर्दश यथोत्पन्नाः क्रमेण कुलकारिणः ॥ १२४ ॥ प्रतिश्रुतिरभूदाद्यस्तेषां कुलकरप्रभुः । महाप्रभावसंपन्नः स्वभवस्मरणान्वितः ॥ १२५ ॥ तस्य काले प्रजा दृष्ट्रा पौर्णमास्यां सहैव खे । आकाशगजघंटाभे द्वे चंद्रादित्यमंडले ॥ १२६ ॥ आकस्मिकभयोद्विग्नाः स्वमहोत्पातशंकिताः । प्रजाः संभूय पपृच्छुस्तं प्रभं शरणागताः॥१२७।। नरप्रधान कावेतावपूर्वी गगतांतयोः । दृश्यते मंडलाकारावकांडे नो भयंकरो ॥ १२८ ॥ अहो दुःसहमस्माकमकस्मात् भयमुद्गतं । किं महाप्रलयः प्राप्तः प्रजानामेव दुस्तरः ॥ १२९ ।। इति पृष्टः प्रभुः प्राह शुच मुंचत हे प्रजाः। न किंचद् भयमस्माकं स्वस्था भवत कथ्यते॥१३०॥ प्रभामंडलसंवीतमेतदादित्यमंडलं । प्रतीच्यां वीक्षते भद्रा! प्राच्यां मोश्चंद्रमंडलं ।। १३१ ॥ ज्योतिश्चक्राधिपावेतो सूर्याचंद्रमसौ स्थितं । मेरुप्रदक्षिणां नित्यं भ्रमंतौ भ्रमणात्मकौ ॥१३२।। चतुर्विधेषु देवेषु ज्योतिर्देवकदंबकं । खे करोत्यनयोनित्यमनुभ्रमणमीशयोः ॥ १३३ ।। ज्योतिरंगमहावृक्षप्रभाच्छादितविग्रहौ । प्रागन्यत्रविदेहेभ्यो न गतौ दृष्टिगोचरं ॥ १३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org