________________
हरिवंशपुराणं ।
१५०
सप्तमः सर्गः ।
मध्यमं तु भवेत्पात्रं संयतासंयता जनाः । जघन्यमुदितं पात्रं सम्यदृष्टिरसंयतः ॥ १०९ ॥ त्रिविधेऽपि बुधः पात्रे दानं दत्त्वा यथोचितं । भोगभूमिसुखं दिव्यं भुंक्ते भूत्वा तु मानुषः ॥ ११० ॥ सुक्षेत्रे विधिवत्क्षमं बीजमल्पमपि व्रजेत् । वृद्धिं यथा तथा पात्रे दानमाहारपूर्वकं ॥ १११ ॥ शाली क्षेत्र निक्षिप्तं यथा मिष्टं पयो भवेत् । धेनुभिश्च यथा पीतं क्षीरत्वं प्रतिपद्यते ॥ ११२ ॥ तथैवाल्परसास्वादमन्नपानौषधादिकं । पात्रदत्तं परत्र स्यादमृतास्वादमक्षयं ।। ११३ ।। निवृत्ताः स्थूलहिंसादेर्मिथ्यादृग्ज्ञानवृत्तयः । कुपात्रमिति विज्ञेयमपात्रमनिवृत्तयः ॥ ११४ ॥ कुपात्रदानतो भूत्वा तिर्यंचो भोगभूमिषु । संभुंजतेंन्तरं द्वीपं कुमानुषकुलेषु वा ।। ११५ ।। असत्क्षेत्रे यथा क्षिप्तं बीजमल्पफलं फलेत् । कुपात्रेऽपि तथा दत्तं दानं दात्रे कुभोगभाक् ॥ ११६ ॥ ऊषरक्षेत्रनिक्षिप्तशालिर्नश्यति मूलतः । यथाऽत्र विफलं दानं कुपात्रपतितं तथा ॥ ११७ ॥ अंबु बिडमे रौद्रं कोद्रवे मदकृद् यथा । विषं व्यालमुखे क्षीरमपात्रे पतितं तथा ॥ ११८ ॥ सुपात्रे सुफलं दानं कुपात्रे कुफलं भवेत् । अपात्रे दुःखदं तस्मात्पात्रेभ्यः प्रतिपादयेत् ॥ ११९ ॥ यात्युपाधिवशाद् भेदं निर्मलः स्फटिकोपलः । यथा तथा च दानार्थं प्रतिग्राहकभेदतः ॥ १२० ॥ सम्यग्डष्टिः पुनः पात्रे स्वपरानुग्रहेच्छया । दानं दत्त्वा विशुद्धात्मा स्वर्गमेव गृही व्रजेत् ॥१२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org