________________
हरिवंशपुराणं ।
१४९
सप्तमः सर्गः ।
श्रो गीतरवे रूपे चक्षुणिं सुसौरभे । जिहीमुखरसास्वादे सुस्पर्शे स्पर्शनं तनोः ॥९७॥ अन्योन्यस्य तदासक्तं दंपतीनां निरंतरं । स्तोकमपि न संतृप्तं मनोऽधिष्ठितमिंद्रियं ॥ ९८ || मिथुनानि यथा नृणां रमंते प्रेमनिर्भरं । तथा कल्पद्रुमाहारैस्तिरां तृप्तचेतसां ||९९|| कचित् कचिचैम कचिदौष्ट्रं च शौकरं । कचित् क्रीडंति वैयाघ्रं मिथुनं मदमंथरं ॥ १०० ॥ गवाश्वमहिषादीनां मिथुनानि मिथस्तदा । गर्त्यायुः प्रमितायूंषि रंरम्यंते निजेच्छया || १०१ ॥ आर्यामाह नरो नारीमार्य नारी नरं निजं । भोगभूमिनरस्त्रीणां नाम साधारणं हि तत् ॥ १०२ ॥ उत्तमा जातिरेकैव चातुर्वर्ण्यं न षक्रियाः । न स्वस्वामिकृतः पुंसां संबंधो न च लिंगिनः ॥ १०३ ॥ मध्यस्था एव सर्वत्र न मित्राणि न शत्रवः । प्रकृत्याल्पकषायित्वाद्यति चायुःक्षये दिवं ॥ १०४ ॥ सुखमृत्युः क्षतेः पुंसो जृंभारंभेण च स्त्रियाः । जन्मबद्धस्य प्रेमस्य (?) युगलस्य सदैव सः || १ ०५।। अथ ज्ञात्वा गणाधीशः श्रेणिकस्य मनोगतं । भोगभूमिसमुत्पत्तिनिमित्तमभणीदिति ॥ १०६ ॥ | कर्मभूमिगता मर्त्याः प्रकृत्याल्पकषायिणः । अत्र ते पात्रदानात् स्युर्भोगभूमिषु मानुषाः ||१०७|| सम्यक्त्वज्ञानचारित्रतपःशुद्धिपवित्रिताः । मध्यस्थाः शत्रुमित्रेषु संतो हि पात्रमुत्तमं ॥ १०८ ॥ १ - जिह्वारसमुखास्वादे इति क पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org