________________
हरिवंशपुराणं।
१४८
सप्तमः सर्गः। चतुर्विधं शुभं वाद्यं ततं च विततं धनं । सुषिरं च सृजंत्यत्र तूर्यांगद्रुमजातयः ॥८४॥ षड्रसान्यतिमृष्टानि चतुर्भेदानि भोगिनां । भोजनांगद्रुमा नानाभोजनानि सृजति ते ॥८५॥ पात्राणि स्थालकं चोलसौवर्णादीन्यनेकशः। भाजनानि विचित्राणि भाजनांगाः सृजत्यलं ॥८६॥ पट्टचीनदुकूलानि वस्त्राणि विविधानि वै । विभ्राणाः स्कंधशाखासु भांति वस्त्रांगपादपाः ॥८७॥ मालतीमल्लिकााद्यत्कुसुमग्रथितानि तु । भांति माल्यानि बिभ्राणा माल्यांगधरणीरुहाः ।।८८॥ हारकुंडलकेयूरकटिसूत्रादिभिश्चिताः । भूषणभूषितांगाश्च भांति स्त्रीपुरुषोचितैः ॥८९॥ मद्यभेदाः प्रसन्नाद्या मदशक्तेविधायकाः । संपाद्यते नरस्त्रीणां हृद्या मद्यांगपादपैः ॥१०॥ दशधाकल्पवृक्षोत्थं भोगं युग्मानि भुजंते । दशांगभोगचक्रेशभोगताभ्याधिकं तदा ॥११॥ तदा स्त्रीपुंसयुग्मानां गान्निलठितात्मनां । दिनानि सप्त गच्छंति निजांगुष्ठावलेहनैः ॥१२॥ रंगतामपि सप्तैव सप्तास्थिरपराक्रमैः । स्थिरैश्च सप्त तैः सप्त कलासु च गुणेषु च ॥१३॥ कालेन तावता तेषां प्राप्तयोवनसंपदां । सम्यक्त्वग्रहणेऽपि स्याद् योग्यता सप्तभिर्दिनैः ॥१४॥ स्त्रीपुसलक्षणः पूर्णा विशुद्धद्रियबुद्धयः । कलागुणविदग्धास्ता रमते नीरुजा प्रजाः ॥९५।। नरा देवकुमाराभा नार्यो देवांगनोपमाः । वर्णगंधरसस्पर्शशब्दवेषमनोरमाः ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org