________________
१४७
सप्तमः सर्गः ।
हरिवंशपुराणं । इंद्रनीलादिभिर्नीलैः कृष्णैर्जात्यंजनादिभिः । पद्मरागादिकैः रक्तैः पीतैर्हेमादिभिः परैः ॥ ७२ ॥ श्वेतैर्मुक्तादिभिर्भूमिर्मयूषा कांत दिङ्मुखैः । पंचवर्णैश्चिता रत्नैः स्वर्गभूरिव शोभते ॥ ७३ ॥ चंद्रकांतशिलाऽस्योर्वी विद्रुमाधरपल्लवा । ललनेव तदाऽभाति रत्नकांचनकंचुका ॥ ७४ ॥ चंद्रकांतांशवः शीताः सूर्यकांतांशवोऽन्यथा । विश्लिष्यं यत्र नाश्लिष्टाः शीतोष्णव्यथिता इव ॥ ७५ ॥ परस्पर कराले परागमूर्च्छितमूर्त्तिभिः । मणिजातिविशेषैर्भूर्माति प्रेमवशैरिव ॥ ७६ ॥ पंचवर्णसुखस्पर्शसुगंधरसशब्दकैः । संच्छन्ना राजते क्षोणी तृणैश्च चतुरंगुलैः ॥७७॥ पूर्णैर्दधिमधुक्षीरघृतेक्षुरस सज्जलैः । रत्नरोधोभिरुयभात् दिव्यवापी सरोवरैः ॥ ७८ ॥ नानावर्णमणिच्छन्नैः सौवर्णैः प्राणिसौख्यदैः । रम्यैः क्षोणीधरैः क्षोणी भ्राजते नितरां सदा ॥ ७९ ॥ ज्योतिर्ग्रहप्रदीपांगैस्तूर्यभोजनभाजनैः । वस्त्रमाल्यांगभूषांगैर्मद्यांगैश्च द्रुमैरभात् ||८०|| ज्योतिरंगद्रुमा ज्योतिच्छन्नचंद्रार्कमंडलाः । अहोरात्रकृतं भेदं भिदंतो भांति संततं ॥ ८१ ॥ सोद्यानभूमयश्चित्राः प्रासादा बहुभूमयः । गृहांगद्रुमखंडोत्था मंडयंति नभोंग्गणं ॥ ८२ ॥ विशालायतशाखाभिः पद्मकुड्मलपल्लवान् । धारयति प्रदीपाभान् प्रदीपांगमहीरुहाः ||८३ || १–— भिरुच्या ' इत्यपि । २ – रत्नभासुराः इति क पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org