________________
१४६
हरिवंश पुराणं ।
सप्तमः सर्गः । कोटीकोटयश्चतस्रश्च तिस्रो द्वे च यथाक्रमं । आदितस्तिमृणां तासां प्रमाण सागरोपमाः ॥१०॥ द्वाचत्वारिंशदब्दानां सहस्रः परिवर्जिताः । कोटीकोटीसमुद्राणां तुरीयस्य यथाक्रमं ॥ ६१ ॥ तानि वर्षसहस्राणि विभक्तानि समं भवेत् । पंचमस्य च षष्ठस्य प्रमाणं कालवस्तुनः ॥ ६२ ॥ कल्पस्ते द्वे तथार्थानां वृद्धिहानिमती स्थितिः । भरतैरावतक्षेत्रेष्वन्येष्वपि ततोऽन्यथा ॥ ६३ ॥ आयेषु त्रिषु कालेषु कल्पवृक्षविभूषिताः । भोगभूमिरियं भूमि गभूमिस्तु भारती ॥ ६४ ॥ युग्मधर्मभुजो भूत्वा तेषामादौ जगत्प्रजाः । षट्चतुर्द्विसहस्राणि धनूंषि वपुषोच्छृताः ॥६५॥ आयुस्त्रिद्वचेकपल्यैस्तु तुल्यं तासां यथाक्रमं । देवोत्तरकुरुक्षेत्रहरिहैमवतेष्विव ॥ ६६ ॥ प्रोद्यदादित्यवर्णाभाः पूर्णचंद्रसमप्रभाः । प्रियंगुश्यामवर्णाश्च तेषु स्त्रीपुरुषास्त्रिषु ॥ ६७ ॥ पृष्टकांडकसंख्यानं षट्पंचाशं शतद्वयं । अष्टाविंशं शतं तेषां चतुःषष्टिर्यथाक्रमं ॥ ६८ ॥ दिव्यं वदरतन्मात्रमक्षमात्रं च भोजनं । तथाऽमलकमानं च चतुस्विद्विदिनैत्रिषु ॥ ६९ ॥ तत्रिकालनियोगेन धरित्रीय नियंत्रिता । त्रिभेदानां तदादत्ते नित्यभोगभुवां स्थितिं ।। ७० ॥ रत्नप्रभा यथा भाति पृथिवीयमवस्थितैः । एषा तथा स्फुरद्रत्नपटलैरुपरिस्थितैः ॥ ७१ ॥
१-वाचत्वारिंशद्वर्षसहस्राणि विभक्तानि विधाकृतानि अर्थात् एकविंशतिवर्षसहस्राणि । २-उत्सपिण्यवसापिण्यौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org