________________
हरिवंश पुराणे !
१४५
सप्तमः सर्गः। सप्ताहांताविरोमात्रैरापूर्य कठिनीकृतं । तदुद्धार्यमिदं पल्यं व्यवहाराख्यमिष्यते ॥ ४८ ॥ एकैकस्मिस्ततो रोम्नि प्रत्यब्दशतमुद्धते । यावताऽस्य क्षयःकालःपल्यं व्युत्पत्तिमात्र कृत् ।।४९॥ असंखेयाब्दकोटीनां समयै रोमखंडितैः । प्रत्येकं पूर्वकं तत्स्यात्पल्यमुद्धारसंज्ञकं ॥ ५० ॥ कोटीकोटयो दशामी पल्यानां सागरोपमा । ताभ्यामतृतीयाभ्यां द्वीपसागरसंमितिः॥५१॥ सोध्वा द्विगुणितो रज्जुस्तनुवातोभयांतभाग् । निष्पद्यते त्रयो लोकाः प्रमीयंते बुधैस्तथा।।५२॥ असंख्यवर्षकोटीनां समयै रोमखंडितः । उद्धारपल्यमद्धाख्यं स्यात्कालोऽद्धाभिधीयते ।। ५३ ॥ कालः पल्योपमाख्योऽसौ समयं समयं प्रति । क्षीयमाणः प्रमाणार्थमायुषो विनियुज्यते ॥ ५४॥ कोटीकोटयो दशामीषां जायते सागरोपमा । मेया संसारिणां चाभिरायुःकर्मभवस्थितिः॥५५।। कोटीकोटयो दशैतासां प्रत्येकमवसर्पिणी । उत्सर्पिणी च कालाः षट् प्रत्येकमनयोःसमाः॥५६॥ अवसर्पति वस्तूनां शक्तिर्यत्र क्रमेण सा । प्रोक्ताऽवसर्पिणी सार्था सान्यथोत्सर्पिणी तथा ।।५७॥ सुषमासुषमाऽऽद्या स्यात् द्वितीया सुषमा समा। दुःषमा सुषमाऽऽद्या स्यात् सुषमा दुःषमादिका।५८|| दुःषमा चावसर्पिण्यामति दुःषमया सह । ता एव प्रतिलोमाः स्युरुत्सर्पिण्यां च षट् समा॥ ५९ ॥
१-'दशैतेषां' इत्यपि । २-दीपसागरप्रमाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org