________________
हरिवंशपुराणं।
१४४
सप्तमः सर्गः। स्वल्पाकाशषडंशाला परमाणु संहताः । सप्तांशाः स्युः कुतस्तु स्यात्परिमाणोः षडंशता ॥३५॥ वर्णगंधरसस्पशैः पूरणं गलनं च यत् । कुर्वति स्कंधवत्तस्मात् पुद्गलाः परमाणवः ॥३६।। अनंतानंतसंख्यानपरमाणसमुच्चयः । अवसंज्ञादिकासंज्ञा स्कंधजातिस्तु जायते ॥३७॥ । ताभिरष्टाभिरप्युक्ता संज्ञासंज्ञादिका तथा । ताभिरप्यष्ट संशाभिस्तुटिरेणुः स्फुटीकृतः ॥३८॥ एतैरप्यष्टवालाग्रैरेकमेकाग्रमानसैः । कमभूमिमनुण्याणां बालाग्रमिति भासितं ॥३९॥ तैरष्टाभिर्भवेल्लिक्षा ताभियंका तथाष्टभिः । यूकाभिस्तु यवोऽष्टाभिर्यवरैष्टाभिरंगुलं ॥४०॥ उत्सेधांगुलमेतत्स्यादुत्सेधोऽनेन देहिनां । अल्पावास्थतवस्तूनां प्रमाणं च प्रगृह्यते ॥४१॥ प्रमाणांगुलमेकं स्यात् तत्पंचशतसंगुणं । प्रथमस्यावसर्पिण्यामंगुलं चक्रवर्तिनः ॥४२।। बोध्यं यथास्वमुत्सेधव्यासादि महता पुनः । द्वीपसागरशैलादेःप्रमाणांगुलसमितं ।। ४३ ।। स्ने स्वे काले मनुष्याणामंगुलं स्वांगुलं मतं । मीयते तेन तच्छत्रभंगारनगरादिकं ।। ४४ ॥ त्रिविधांगुलपटू स्यात् पादः पादद्वयं पुनः । वितस्तिस्तद्वयं हस्तस्तद्वयं किष्कुरिष्यते ॥ ४५ ।। दंडः किष्कुद्वयं दंडः धनुनोंडया समा मताः । अष्टौ दंडसहस्राणि योजनं परिभाषितं ।।४६॥ प्रमाणयोजनव्यासस्वावगाहविशेषवत् । त्रिगुणं परिवेषेण क्षेत्र पर्यंतभित्तिकं ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org