________________
हरिवंशपुराणं।
१४३
सप्तमः सर्गः। अयनद्रयमब्दं स्यात् पंचाब्दानि युगं पुनः । युगद्वयं दशाब्दानि शतं तानि दशाहतौ ॥ २२ ॥ भवेद्वषेसहस्रं तु शतं चापि दशाहतं । दशवषेसहस्राणि तदेव दशताडितं ॥ २३ ॥ ज्ञेयं वर्षसहस्रं तु तचापि दशसंगुणं । पूर्वांगं तु तदभ्यस्तमशीत्या चतुरग्रया ॥ २४ ॥ तत्तद्गुणं च पूर्वागं पूर्व भवति निश्चितं । पूर्वागं तद्गुणं तच्च पूर्वसंज्ञं तु तद्गुणं ॥ २५ ॥ नियुतांगं परं तस्मानियुतं च ततः परं । कुमुदांग ततश्च स्याद् कुमुदं तु ततः परं ॥ २६ ॥ पद्मांग पद्ममप्यस्मात् नलिनांगं तथैव च । नलिनं कमलांगं च कमलं चाप्यतः परं ॥ २७ ॥ तुट्यांगं तुट्यमप्यस्मादटटांगं ततोऽपि च । अटटं चाममांगं स्यादममं चाप्यतः परं ॥ २८ ॥ ऊहांगमूहमप्यस्माल्लतांगं च लताह्वयं । महालतांगसंज्ञं स्यात् कालवस्तुमहालता ॥ २९ ॥ शिरःप्रकंपितं प्रोक्तं ततो हस्तप्रहलिका । चर्चिकेत्यादिकः कालः संख्ययः परिभाषितः ॥३०॥ वर्षसंख्याव्यतिक्रांतः कालोऽसंख्येय इष्यते । पल्यसागरसंख्यानं कल्पानंतादिभेदवान् ॥३१॥ आदिमध्यांतनिर्मुक्तं निर्विभागमतींद्रियं । मूर्तमप्यप्रदेशं च परमाणुं प्रचक्षते ॥३२॥ एकदैकं रसं वर्ण गंधस्पर्शाववाधको । दधन् स वर्ततेऽभेद्यः शब्दहेतुरशब्दकः ।।३३।। आशंक्या नार्थतत्त्व नभोशानां समंततः । षट्केन युगपद्योगात्परमाणोः पदंशता ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org