________________
हरिवंशपुराणं ।
१४२
सप्तमः सर्गः। अगुरुत्वलघुत्वात्मपरिणामसमन्विताः । परोपाधिविकारित्वादनित्यास्तु कथंचन ॥९॥ त्रिधा समयवत्तीनां हेतुत्वात्ते त्रिधा स्मृताः । अनंतसमयोत्पादादनंतव्यपदेशिनः ॥१०॥ तेभ्यः कारणभूतेभ्यः समयस्य समुद्भवः । कारणेन विना कार्य न कदाचित् प्रजायते ॥११॥ स्वत एवाऽसतो जन्म कार्यस्य यदि जायते । स्वत एव हि किं न स्याद् खरशृंगस्य संभवः॥१२॥ न कालादन्यतो हेतोः कालकार्यसमुद्भवः । न हि संजायते जातु शालिवीजाद् यवांकुरः ॥१३॥ जायते भिन्नजातीयो हेतुर्यत्रापि कार्यकृत् । तत्राऽसौ सहकारी स्यात् मुख्योपादानकारणः॥१४॥ युक्तागमवलादेवमनतींद्रियदर्शिनः । सद्भावं मुख्यकालस्य प्रतिपद्य व्यवस्थितः ॥ १५ ॥ समयावलिकोलासः प्राणस्तोकलवादिकः । व्यवहारस्तु विज्ञेयः कालः कालज्ञवर्णितः ॥१६॥ परिणामं प्रपन्नस्य गत्या सर्वजघन्यया । परमाणोर्निजागाढस्वप्रदेशव्यतिक्रमः ।। १७ ॥ कालेन यावतैव स्यादविभागः स भाषितः । समयः समयाभिनिरुद्धः परमास्थितः ॥ १८ ॥ तैरेवावलिकासंख्यैः संख्याताभिस्तु भाषिता । ताभिरुच्छासनिश्वासौ तावुभौ प्राण इष्यते ॥१९॥ प्राणाः सप्त पुनः स्तोकः सप्तस्तोका भवेल्लवः । ते सप्त सप्ततिः संतो मुहुर्तस्त्रिंशदेव ते ॥ २०॥ अहोरात्रं भवेत्पक्षस्तानि पंचदशैव तौ । मासो मासावृतुस्तेषां त्रितयं त्वयनं तथा ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org