SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । धर्मध्यानं धवलमुदितं मोक्षहेतुर्जिनेंद्रे - राज्ञापायप्रभृतिविचयैश्वित्तवृत्तेर्निरोधः । यत्तत्कार्या समितकरणैर्लोकसंस्थानचिंता मंदाक्रांता न हृदय मदे मेंद्रियाऽस्वा (श्वा) विधेयाः ।। १४० इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ ज्योतिर्लोकोर्ध्वलोकवर्णनो नाभ षष्ठः सर्गः ॥ ६ ॥ १४१ Jain Education International सप्तमः सर्गः । वर्णगंधरसस्पर्शमुक्तोऽगौरवलाघवः । वर्त्तनालक्षणः कालो मुख्यो गौणश्च स द्विधा ॥ १ ॥ गतिस्थित्यवगाहानां धर्माधर्माविराणि च । निमित्तं सर्वभावानां वर्त्तनस्यात्र निश्वयः ||२|| धर्माधर्मभोद्रव्यं यथैवागमदृष्टितः । तथा निश्चयकालोऽपि निश्चेतव्यो विपश्चिता || ३ || जीवानां पुगलानां च परिवृत्तिरनेकधा । गौणकालप्रवृत्तिश्च मुख्यकालनिबंधना ||४|| सर्वेषामेव भावानां परिणामादिवृत्तयः । स्वांतर्वहिर्निमितेभ्यः प्रवर्तते समंततः ||५| निमित्तमांतरं तत्र योग्यता वस्तुनि स्थिता । वहिर्निश्चयकालस्तु निश्चितस्तत्त्वदर्शिभिः ||६|| अन्योन्यानुप्रवेशेन विना कालाणवः पृथक् । लोकाकाशमशेषं तु व्याप्य तिष्ठति संचिताः ||७|| द्रव्यार्थान्निर्विकारत्वादुदयव्ययवर्जिताः । नित्या एव कथंचिंते स्वरूपसमवस्थिताः ||८|| सप्तमः सर्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy