________________
हरिवंशपुराणं ।
षष्ठः सर्गः ।
पर्यंतेंऽगुल संख्येयभागमात्रतनुस्थितिः । सोत्तानितमहावृशश्वेतत्रोपमाकृतिः || १२८|| चत्वारिंशत्तु विस्तारो लक्षाः पंचभिरचिताः । योजनानि क्षितेस्तस्या विद्वद्भिरभिधीयते ।। १२९ ।। कोटी तु परिधिर्लक्षा द्विचत्वारिंशदिष्यते । द्विशत्येकान्नपंचाशत् त्रिसहस्री दशाहता || १३० ।। ऊर्ध्वं तस्याः पुरा प्रोक्तं यद्वातवलयत्रयं । तत्र त्रिकोशबाहुल्यमतीत्य वलयद्वयं ।। १३१ ॥ धनुषां पंचशत्यामा पंचसप्ततियुक्तया । धनुःसहस्रमेकं हि बहलं वलयं तु यत् ॥ १३२ ॥ तनुवातस्य तस्यांते पंचविंशतिसंयुतां । विगाह्योत्कर्षतः सिद्धाः स्थिताः पंचधनुःशतीं ॥ १३३ ॥ सार्द्धहस्तत्रयं पूर्वं कृत्वांतेऽनंतरोच्छूर्ति | सिद्धावगाहना काशदेशो देशोन इष्यते ।। १३४ ॥ raisaष्ठते यत्र सिद्धः सिद्धप्रयोजनः । तत्रानंताश्च तिष्ठति सिद्धास्ते स्वावगाहतः ॥ १३५ ॥ अशरीराः सुखात्मानः सिद्धा जीवघनायुताः । साकारेणोपयोगेन निराकारेण चात्मनः ॥ १३६ ॥ सर्वलोकमलोकं च संततानंतपर्ययं । जानंतः सह पश्यंतस्तिष्ठति सुखिनः सदा ।। १३७ ॥ सिद्धाः शुद्धाः प्रबुद्धार्था विजन्मानोऽजरामराः । शाश्वताः शाश्वतं स्थानमधितिष्ठेत्यबंधनाः ।। १३८ || ज्योतिर्लोकः प्रकटपटलस्वर्गमोक्षोर्ध्वलोकः प्रज्ञप्त्युक्तं नरवर मया संग्रहात्क्षेत्रमेवं । संप्रोक्तं ते श्रवणसुभगं श्रेणिक श्रेयसेऽतः श्रृण्वायुष्मन्नवहितमतिर्वच्मि कालोपदेशं ॥ १३९ ॥
Jain Education International
१४०
For Private & Personal Use Only
www.jainelibrary.org