________________
हरिवंशपुराणं ।
१३९
षष्ठः सर्गः । नवानुदिशदेवानामासप्तम्याः समाप्तितः । लोकनाडीसमस्तासु पंचानुत्तरवासिनां ॥ ११६ ॥ स्वविमानावधिस्तृवं विषयोऽवधिचक्षुषः। विश्वेषामेव देवानामिति विश्वविदो विदुः ।। ११७ ॥ स्थित्युत्सेधप्रवीचारा जिनेंद्रप्रतिभाषिताः । चतुर्देवनिकायानां वदितव्यं यथायथं ॥ ११८ ॥ दक्षिणाशाऽऽरणांतानां देव्यः सौधर्म एव तु । निजागारेषु जायंते नीयंते च निजास्पदं ॥ ११९ ॥ उत्तराशाच्युतांतानां देवानां दिव्यमूत्तेयः। ऐशानकल्पसंभूता देव्यो यांति निजाश्रयं ।। १२० ॥ शुद्धदेवीयुतान्याहुर्विमानानि मुनीश्वराः। पट् लक्षास्तु चतुलेक्षाः सौधर्मेशानकल्पयोः ॥ १२१॥ दिव्यवस्त्रविभूषाभिः शुभविक्रियमूर्तिभिः । चित्रनेत्रहरोदाररूपचित्तस्वचिभिः ॥१२२ ॥ हावभावविदग्धाभिर्निसर्गप्रेमभूमिभिः । नैकपल्योपमायुभिर्देवी भिवहाभिःसुखं ॥ १२३ ॥ इंद्राः सामानिका देवास्त्रायस्त्रिंशादयोखिलाः । कल्पोपपन्नपर्यताः श्रयंते दीर्घजीविनः ॥१२४॥ अहमिंद्रास्ततोऽनंतं भजते भवनं सुखं । तत्सातावेदनीयोत्थमस्त्रीकं प्रशमात्मजं ।। १२५ ॥ सिद्धानां तु परं स्थानं परं द्वादशयोजनं । सर्वार्थसिद्धितो गत्वा स्थितं त्रैलाक्यमूर्धनि ॥१६॥ ईषत्प्राग्भारसंज्ञाऽसावष्टमी पृथिवी स्तुता । अष्टयोजनबाहुल्या मध्ये हीना कमात्ततः ॥१२७॥
१-रूपविभ्रमवर्तिभिः । २-श्रुता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org