________________
हरिवंशपुराणं।
१३८
षष्ठः सर्गः। आज्योतिर्लोकमुत्पादस्तापसानां तपस्विनां । ब्रह्मलोकावधिज्ञेयः परिव्राजकयोगिनां ॥१०॥ सहगाजीवकानां च सहस्रारावधिर्भवः । न जिनेतरदृष्टेन लिंगेन तु ततः परं ॥१०४॥ कल्पानच्युतपर्यंतान सौधर्मप्रभृतीन् पुनः। व्रति श्रावकास्तेभ्यः श्रवणा परतोऽपि च ॥१०५॥ उपपादोऽस्त्यभव्यानामग्रगवेयकेष्वपि । स च निग्रंथलिंगेन संगतोग्रतपःश्रिया ।। १०६ ॥ रत्नत्रयसमृद्धस्य भव्यस्यैव ततः परं । यावत्सथिसिद्धि स्यादुपपादस्तपस्विनः ॥ १०७॥ कृष्णा नीला च कापोता लेश्याश्च द्रव्यभावतः । तेजो लेश्या जघन्या च ज्योतिषांतेषु भाषिताः।। सौधर्मेशानदेवानां तेजोलेश्या तु मध्यमा । सैवोत्कृष्टोत्तरद्वंद्वै पद्मलेश्या जघन्यतः ॥ १०९ ॥ मध्यमा पालेश्या तु परस्मिन् युगलत्रये । उत्कृष्टा पद्मलेश्या च युग्मे शुक्लावरापरे ॥ ११०॥ अच्युतांतचतुष्के च नवग्रवेयकेषु च । सर्वेषामेव देवानां शुक्ललेश्या तु मध्यमा ।। १११ ॥ अहमिंद्रविमानेषु चतुर्दशसु संस्थिताः । लेश्या परमशुक्लोवं संक्लेशरहितात्मनां ।। ११२ ॥ आधर्मायास्तु देवानामाद्ययोर्विषयोऽवधिः । कल्पयोःपरयोश्वासावावंशाया व्यवस्थितः॥११३।। आऽसौ मेघावनेरुक्तश्चतु:कल्पे तु तत्परं । आचतुर्थपृथिव्यास्तु परे कल्पचतुष्टये ॥ ११४ ॥ आनतादिचतुष्केऽसावापंचम्याः समीरितः । नवग्रैवेयकस्थानामाषष्टया विषयोऽवधिः ॥ ११५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org